पृष्ठम्:भामती.djvu/७६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-४ पा. ४ ६.१]
[७६५]

पुरुषखातन्त्र्याभावात् स्वातन्त्र्ये वा प्रतिभवप्रसङ्गादिति ॥

भोगमनसम्यलिङ्गच ॥ २१ ॥

न केवलं खाराज्यस्येश्वराधीनतया जगत्सर्जनम् साक्षा झोगमात्रेण तेन परमेशवरेण साम्याभिधानादपि व्यपदेशलि ङ्गादिति । भूतान्यवन्ति प्रीणयन्तीति भजयन्तीति यावत् । सूत्रन्तरावसरंणाय शङ्कते । "नन्वेवं सति सातिशयत्वा दि"ति । सद्व परमेश्वरस्यतिशयेन वर्ततइति विदुष ऐश्वर्यं सातिशयम् यच्च सातिशयं तच्च कार्यं यथा लैकिकमै अवयम्.तदनेन कार्यत्वमुक्तम् । तथा च कार्यत्वादन्तवत्प्र समितिं तच्च न युक्तमानन्येन तद्विदुषां तत्र प्रवृत्तिरिति । अत उत्तरं पठति ॥

अनावृतिः शब्दादनवृत्तिः शब्दात् ॥ २२ ॥

किमर्चिरादिमार्गेण ब्रह्मलोकप्राप्तानामैश्वर्यस्यान्तवत्वं त्व या साध्यते । आचे खिच्चद्रलोकादिवद् ब्रह्मलोकादेतल्लो कप्राप्तिमुक्तरन्तवत्वम् । तत्र पूर्वस्मिन् कल्पे सिद्धसाधनम । उत्तरत्र तु श्रुतिस्मृतिविरोधः । तद्विधानां च क्रममक्तिप्रति पादनादिति । तत्त्वमसिवाक्यथैकोपासनापरान्प्रत्याह ।“सु- म्यग्दर्शनविध्वस्ततमसामि”ति । विश्वविद्यातमः निरुपाधि ब्रह्मसाशात्कारस्तत्त्वदर्शनम् । न चैतन्निर्वाणं खरूपवस्था ननुक्षणं कार्यं येनानित्यं स्यादित्याह । “नित्यसिड्”ति ॥ इति श्रीवाचस्पतिमिश्रविट्रचिते शङ्करभगवत्पादभाष्यवि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७६८&oldid=141842" इत्यस्माद् प्रतिप्राप्तम्