र्विदुषो नानाभावमाचक्षमाणा भिन्नशरीरेन्द्रियोपाधिसंबन्धे ऽवकस्पते । नादेदहेतुभेदे न चि यन्त्राणि भिन्नानि निर्माय वादयन्यत्रवादो नानात्वेनापदिश्यते । भोगाधिष्ठानत्वं च शरीरत्वं नाभोगाधिष्ठानेषु यन्त्रेष्विव युज्यते । तस्माद्दे वन्तराणि सृजति । न चानेनाधिष्ठितानि देवपक्षे वर्त न्ते । न च सर्वगतस्य वस्तुतो विगलितप्रायाविद्यस्य विदुषः पृथग्जनस्यैवेत्पत्तिकान्तःकरणवश्यता येन तदैत्पत्तिक-. मन्तःकरणमागन्तकान्तःकरणान्तरसंबन्धमस्य वारयत् त स्माद्विद्वान् सर्वस्य वशी सर्वेश्वरः सत्यसंकल्पः सेन्द्रियम नांसि शरीराणि निर्माय तानि चैकपदे प्रविश्य तत्तदि द्रियमन्तकरणैस्तेषु लोकेषु मुक्तो विचरतीति साम्प्रतम्। प्रदीपवदिति तु निदर्शनं प्रदीपैक्यं प्रदीपव्यक्तिधूपचर्यते भि नवतिवर्तिनीनां भिन्नव्यक्तीनां भेदात् । एवं विद्वान् - वारमा देहभेदेयेक इति परामर्शार्थः१) । एकमनोवती नत्वेकाभिप्रायवर्तनीत्यर्थः । संपन्नः केवलो मुक्त इत्युच्यते । न चैतस्येत्यंभावसंभवः श्रुतिविरोधादित्युक्तमर्थजातमाक्षि पति । ‘कथं पुनर्मुक्तस्ये”ति । ‘सलिल” इति । सलिल मिव सलिलः सलिलप्रातिपदिकात्सर्वप्रातिपदिकेभ्य इत्युपमा नादाचारे किपि कृते पचाद्यच च कृते रूपम् । एतदुक्तं भवति । यथा सलिलमम्भोनिधेः प्रक्षिप्तं तदेकीभावमुप याति । एवं द्रष्टापि ब्रह्मणेति । अत्रोत्तरं सूत्रम् ॥
(१) परमार्थ नि-पा० ३ ।