पक्षधर्मत्वादिवन्मानान्तराबाधितविषयत्वं सामग्रीमध्यपा तेनाषेच्यमाणं सामग्रीखण्डनेन तद्विरुद्धया श्रुत्या बाध्यते । अत एव नरशिरःकपालादि।चानुमानमागमबाधितविषय तया नोपपद्यते । तस्माद्विद्याप्रभावाविदुषां संकल्पमात्रदेव पित्राद्यपस्थानमिति साम्प्रतम् । तथाहुरागमिनः। को छि योगप्रभावाडते ऽगस्यइव समुदं पिबति स इव दण्डका रण्यं रुजति । तस्मात्सर्वमवदातम् ॥
अभवं बादरिराह ठेवम् ॥ १०॥
अन्ययोगव्यवच्छि या मनसेति विशेषणात् ।
देचेन्द्रियवियोगः स्याद्विदुषो बादरेर्मतम् ॥
अनेकधाभावश्चईिप्रभावभुवो मनोभेदाद्वा स्तुतिमात्रं वा । कथं चिह्मविद्याय निर्गुणायां तदसंभवात् असतापि चि गुणेन स्तुतिर्भवत्यवेति ॥
भावं जैमिनिर्विकल्पमननत् ॥११॥
शरीरेन्द्रियभेदे च नानाभावः समञ्जसः ।
न चार्थसंभवे युक्तं स्तुतिमात्रमनर्थकम् ॥
न हि मनोमात्रभेदे स्फुटतरो ऽनेकधाभावो यथा - रोरेन्द्रियभेदे । अत एव सँभरेरभिविनिर्मितविविधदेवस्या पर्यायेण मान्धावकन्याभिः पञ्चशता विचरः पैराणिकैः स्मर्यते । न चार्थसंभवे स्ततिमात्रमनर्थकमवकल्पते । संभ वति चास्त्रार्थवत्त्वम् । यद्यपि निर्गुणायामिदं भैमविद्यायां पद्यते तथापि तस्याः पुरस्तादनेन सगणावस्थागतेनैश्वर्येण निर्गुणेव विद्या यने । न चान्ययोगव्यवच्छेदेनैव विशे