पृष्ठम्:भामती.djvu/७६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-४ पा.४ .८]
[७५७]

यत्नानपेक्षः संकल्पो लोके वस्तुप्रसाधनः ।
न दृष्टः सोत्र यत्नस्य ल।घवदवधारितः ॥

लोके चि कं चिदर्थं चिकीर्षः प्रयतते प्रयतमानः समी हते समीचनस्तमर्थमाप्नोतीति क्रमो दृष्टः । न त्विच्छा नन्तरमेवास्येष्यमाणमुपतिष्ठते । तेन भृत्यापि लोकवृत्तम नुरुध्यमानया विदुषस्तादृश एव क्रमो ऽनुमन्तव्यः । अव धारणं तु संकल्पादेवेति लैकिकं यत्नभैरवमपेक्ष्य विद्या प्रभवतो विदुषो यत्नलाघवात् । यल्लघु तदसत्कल्पमिति । स्यादेतत् । यथा मनोरथमात्रोपस्थापिता स्त्री स्त्रैणन चरमधातुविसर्गचेतुः । एवं पित्रादयोप्यस्य संकल्पोपस्थापि ताः कल्पिय्यन्ते खकार्यायेत्यत आह । “‘न च संकल्पमा त्रसमुत्याना” इति । सन्ति च खलु कानि चिदनुरूपसा ध्यानि कार्याणि यथा वस्तुसध्यानि दन्तक्षतमणिमाला दोनि । कानि चित्तु ज्ञानसाध्यानि यथोक्तचरमधातुवि सर्गरोमहर्षादोनि । तत्र मनोरथमात्रोपनीते पित्रादे। भ वन्तु तज्ज्ञानमात्रसाध्यानि कार्याणि न तु तत्साध्यानि । भवितुमर्चन्ति । न च स्त्रैणस्य रोमहर्षादिवद्भवन्ति जीव स्तुसाध्या मणिमालादयस्तदिदमुक्तं पुष्कलभोगमिति प्राप्ते ऽभिधीयते ।

पित्रादीनां समुत्थानं संकल्पादेव तसृतेः ।
न चानुमनबाधात्र श्रुत्या तस्यैव बाधनात् ॥

प्रमणन्तरानपेश वि श्रुतिः खार्थं गोचरयन्ती न प्र माणान्तरेण शक्या बाधितुम्। अनुमानमेव तु खोपादाय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७६०&oldid=141834" इत्यस्माद् प्रतिप्राप्तम्