पृष्ठम्:भामती.djvu/७४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामति]
[अ-४ पर ३२४]
[७४३]

इति युक्तम् । इममेवार्थममानवं पुरुषातिवाइनलक्षणं लि ङ्गमुपोह्लयतीत्युक्तम् । "अनवस्थितत्वादर्चिरादोनामिति । अवस्थितं इि मार्गचिन्हे भवत्यव्यभिचराननवस्थितं व्यभिचारादिति। अर्चिष इति च वेतै पच्चमी नापादाने। गुणवं चार्जिनतया । न च वैशेषिकपरिभाषया नियम आ स्थेयो लोक विरोधात् । अपि च तेचैिरभिसंभवन्तीति संब न्धमात्रमुक्तमिति । सामान्यवचने शब्दे विशेषाकाङ्किणि स्फुटं यद्विशेषपदं तेन तत्सामान्यं नियम्यते । यथा ब्राह्मणमानय भोजयितव्य इति तद्विशेषापेक्षायां यदा तरुसंनिधावुपनि पतति पदं कण्टदि तदा तेनैतन्नियम्यते । एवमिहाप”ति ।

वैद्युतेनैव ततस्तच्छतेः ॥ ६ ॥

विद्युलोकमागतो मानवः पुरुषो वैद्युतस्तेनैव न तु व रुणादिना स्खयमुह्यत । तच्छुतेस्तस्यैव खयं वोढत्वश्रुतेः । वरुणदयस्तु तसदयके वर्तमाना वोढारो भवन्तीति च वैषम्यं न वोढ़वइति सर्वमवदातम् । पाठक्रमादर्थक्रमो बल वानिति। यथार्थक्रमं पयन्ते स्त्राणि ।

परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥

स एतान् ब्रह्म गमयतीति विचिकित्स्यते । किं परं ब्रह्म गमयत्याशु खिदपरं कार्यं ब्रह्मति ।

मुख्यत्वादहृतं प्राप्तेः परप्रकरणादपि।
गन्तव्यं जैमिनिमेने परमेवार्चिरादिना ॥

ब्रह्म गमयतीत्यत्र चि नपुंसकत्रह्मपदं परस्मिन्नव ब्रह्म

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७४६&oldid=141819" इत्यस्माद् प्रतिप्राप्तम्