पृष्ठम्:भामती.djvu/६८७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[अ-३ पा-४.२१]
[भामती]
[६८४]

विध्युपहिता भावना उदावर्याः । भवतिवैष जन्मनि । यथा कुलालब्यापाराद् घटो भवति बीजादङरो भवतीति प्रयुञ्ज ते । न च बीजादङरो ऽस्तीति प्रयुञ्जने । तस्मादस्तिः सत्ताय न जन्मनीति ॥

पारिप्लवाथ इति चेन्न विशेषितखत् ॥ २३ ॥

यद्यपि उपनिषदाख्यानानि विद्यासन्निधै। शुनानि । तथापि सर्वाण्याख्यानानि पारिलव इति सर्वभृत्या निःशेषार्थतया दुर्बलस्य सन्निधेर्बाधितत्वात् पारिप्लवाथान्येवायानानि । न च सर्वा दाशतयारबूयादिति विनियोगेषि दाशतयानां प्रा तिस्खिकविनियोगात्तत्रतत्र कर्मणि यथा विनियोगो न विरु ध्यते तथेहापि सत्यपि पारिझवे विनियोगो सन्निधानाद् वि द्याङ्गवमपि भविष्यतीति वाच्यम् । दाशतयीषु प्रातिस्विकानां विनियोगानां समुदायविनियोगस्य च तुल्यवलत्वादिह तु सन्निधानात् श्रुतेबलयस्वात् । तस्मात्पारिसवार्थान्येवाख्या नानीति प्राप्त,उच्यते । नैषामाख्यनानां पारिप्लवे विनियोगः । किं तु पारिस्रवमाचक्षीतेत्युपक्रम्य यान्याम्नतानि मनुर्वैवस्ख तो राजेत्यादीनि तेषामेव तत्र विनियोगः तान्येव चि पारिभावेन विशेषितानि । इतरथा पारिभवे सर्वाण्याख्या नानीत्येतावतैव गतत्वात् पारिशवमाचशतेत्यनर्थकं स्यात् । आख्यानविशेषकत्वे त्वर्थवत् । तस्माद्विशेषणानुरोधात् सर्व शब्दस्तदपेशे न त्वशेषवचनः । यथा सर्वे ब्राह्मण भोज

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६८७&oldid=141760" इत्यस्माद् पुनः प्राप्तिः