एवं प्राप्त,मेवं प्राप्त, उच्यते। उद्गीथाद्भावबद्वास्तु प्रत्यया ना नाशाखासु प्रतिवेदमनुवर्तीन् न प्रतिशाखं व्यवतिठेरन् । उद्यमित्यादिसामान्यश्रुनेरविशेषात् । एतदुक्तं भवति । युक्तं एकं पटमानयेत्यादे पटश्रुतिमविशषप्रवृत्तामपि स न्निधानात् एकश्रुतिधनइति । विशिष्टार्थप्रत्यायनप्रयुक्त वात् पदानां समभिव्याचारस्य । अन्यथा तदनुपपत्तेः । न च खर्थमस्कारयित्वा विशिष्टार्थप्रत्यायनं पदानामिति विशिष्टार्थप्रयुक्तं स्वार्थसारणं न खप्रयोजकमपबाधितुमुल हते । मा च बाधि प्रयोजकाभावेन स्वार्थस्मारणमपीति युक्तमविशेषप्रवृत्ताया अपि शुनैरेकस्मिन्नेव विशेषे अवस्था पनम् । इच ढनंथभृतेरविशेषेण विशिष्टार्थप्रत्यायकत्वात् । संकोचे प्रमाणं किंचिन्नास्ति । न च सन्निधिमात्रमपबाधि तमर्हति । अतिसामान्यद्वारेण च सर्वविशेषगामिन्याः श्र तेरेकस्मिन्नवस्थानं पोटैव। तस्मात्सीथविषयाः प्रत्यया इति।
मन्नादिवद्वा ऽविरोधः॥ ५६ ॥
विरुद्धमिति नः क्क संप्रत्ययो यत्प्रमाणेन नोपलभ्यते । उ पलब्धं च मन्त्रादिषु शाखान्तरीयेषु शाखान्तरीयकर्मसंब न्धिस्वम् । तदश्चािपीति दर्शनादविरोधः । एतच्च दर्शितं भाष्येण सुगमेनेति ॥
भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दशीयति ॥ ५७ ॥
वैश्वानरविद्यायां छान्दोग्ये किं व्यस्नोपासनं समस्तोपा