पृष्ठम्:भामती.djvu/६६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ ३पाः ३७.५४]
[भामती]
[६६२]

रुषं प्रनिपिपादयिषतोनवधेयवचनस्य प्रेशवत्त नाम । अपि च पशवोपि चिताङ्कितप्राप्तिपरिवारार्थिनः कोमलशष्यश्या मलाय भुवि प्रवर्तन्ते । परिहरन्ति चाश्यानतृणकण्टका कीर्णाम् । नास्तिकस्तु पशोरपि परिष्टानिष्टसाधनमवि दाम् । न खल्वस्मिन्ननमानगोचरप्रवृत्तिनिवृत्तिगोचरे प्रत्यक्षी प्रभवति । न च परप्रत्यायनाय शब्दं प्रयुञ्जीत शाब्दस्यार्थ स्याप्रत्यक्षत्वात् । तदेव मा नाम भूत्रास्तिकस्य जन्मान्त रमस्मिन्नेव जन्मन्यपस्थितस्य मकत्वप्रवृत्तिनिवृत्तिविरवरूपो मञ्चन्नरकः । पराक्रन्तं चात्र सरिभिः । अत्यन्तपरोशगो चरा वान्यथानुपपद्यमानार्थप्रभवार्थापत्तिः। भूयः सामान्ययो गेन चोपमानमुपपादितं प्रमाणलक्षणे, तदत्रास्तु तावत्प्रमा णान्तरं प्रत्यक्षमेवाहंप्रत्ययः शरीरातिरिक्तमालस्बतइत्यन्वय व्यतिरेकाभ्यामवधार्यते । योगव्याघ्रवत् खन्नदशायां च श रीरान्तरपरिगञ्चभिमानेप्यहंकारास्पदस्य प्रत्यभिज्ञायमानत्व मित्युक्तम् । सूत्रयोजना तु न त्वव्यतिरिक्त किं तु व्यति रिक्त आत्मा देशात् । कुनस्तद्भावाभावित्वात् । चैतन्यादि यदि शरोरगु, ततोनेन विशेषगुणेन भवितव्यम् । न तु संख्यापरिमाणसंयोगादिवत् सामान्यगुणे न । तथा च ये भावविशेषगुणास्ते यावजूतभाविनो इष्टा यथा रूपादयः । नह्यस्ति संभवः श्रुतं च रूपादिरहितं चेति । तस्माङ्गतवि शेषगणरूपादिवैधम्र्यात् न चैतन्यं शरीरगुणः । एतेनेछ दीनां शरीरविशेषगुणत्वं प्रत्युक्तम् । प्राणचेष्टादयो यद्यपि देवधर्मा एव । तथापि न देयमात्रप्रभवाः । ऋतावस्थाया

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६६५&oldid=141737" इत्यस्माद् प्रतिप्राप्तम्