शङ्कायामुत्पत्तिवाक्यएव राजाधिराजस्खराजगुणभेदात् । या ज्यानुवाक्याव्ययासविधानाच । यथान्यासमंव देवनापृथ क्वात्प्रदानपृथक्त्वं भवति । सर्घप्रदाने चि व्यत्यासवि धानमनपपनम् । क्रमवति प्रदाने व्यत्यासविधिरर्थवान् । तथाविधस्यैव क्रमस्य विवक्षितत्वात् । सुगममन्यत् ।
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदाप॥ ४४॥
इह सिद्धान्तेनोपक्रम्य पूर्वपक्षयित्वा सिद्धान्तयति । तत्र यद्यपि भूयांसि सन्ति लिङ्गानि मनश्चिदादीनां स्वातन्त्र्य हृचकानि । तथापि न तानि खातन्त्र्येण स्वातन्त्र्यं () प्रति प्रापकाणि । प्रमाणप्रापितं तु स्वातन्त्र्यमुपोदोलयन्ति । न चात्रास्ति स्वातन्त्र्यप्रापकं प्रमाणम् । न चेदं सामर्थलक्षणं लिङ्गं येनास्य स्वातन्त्र्येण प्रापकं भवेत् । तद्दि सामर्थमभि धानस्य वार्थस्य वा स्याद्यथा पूषाद्यनुमन्त्रमन्त्रस्य पूषानु मन्त्रो यथा वा पशुना यजेतेति एकत्वस या अर्थ स्य सवेयावच्छेदसमर्थम् । न चेदमन्यस्यार्थदर्शनलक्षणं लिङ्गम् । तथा स्तुत्यर्थेन नास्य विध्युद्देशेनैकवाक्यतया विधिपरत्वात् । तस्मादसति सामथ्र्यलक्षणे (२) विरो इरि प्रकरणमप्रत्यूचं मनश्चिदादीनां क्रियशशेषतामवगम यति । न च ते चैते विद्याचित एवेत्यवधारणश्रुतिः कि यानुप्रवेशं वारयति । येन श्रुतिविरोधे सति न प्रकरणं
(१) स्वतन्त्र्यप्रापकीणति पा०- ३
(२) ळिङ्गइत्यधिकं ३ पुस्तके ।