पृष्ठम्:भामती.djvu/६४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा-३ सू ३२]
[६२७]

र्जवेन घटने ।। समर्थचेतुसंनिधै। पायोगात् । तस्मादेत दपि विद्यास्तुत्यैव गमयितव्यम् । तस्म्नानपवर्गे विद्याफल म् । तथा चापवर्गाक्षेपेण पूर्वः पक्षः । अत्र च पाशिकं मोशचेतुत्वमित्यपानन, अहेतुत्वं वेति तु पूर्वपशतत्त्वम् । रावन्तस्तु

विद्याकर्मखनुष्ठानतोषितेश्वरचोदितम् ।
अधिकारं समाप्यैते प्रविशन्ति परं पदम् ॥

निर्णायां विद्यायामपवर्गलश्चयं श्रुयमा न स्तुतिमा त्रतया व्याख्यातुमुचितम् । पैौर्वापर्यपर्यालोचने भूयसीनां श्रुतीनामत्रैवं तात्पर्यावधारणात् । न च यत्र तात्पर्यं तदन्य थयितुं युक्तम् । उक्तं च न विधे परः शब्दार्थ इति । न च विदुषामपान्तरतमःप्रभृतीनां तत्तसंचारात्सत्यामपि ब्रह्मविद्यायामनिभैशाद् न ब्रह्मविद्या मोशस्य हेतुरिति साम्प्रतम्। हेरपि सति प्रतिबन्धे कार्यानुपजनो न हेतु भावमपाकरोति । न च वृन्तफलसंयोगप्रतिबद्री गुरुत्वं न पतनमजीजनदिति प्रतिबन्धापगमे तत्कुर्वन्न तहेतुः । न च न सेतुप्रतिबन्धाना ()मपां निनदेशनभिसर्पणमिति से तुभेदे न निम्नमभिसर्पन्ति । तद्वदिचापि विद्याकर्माराध नावर्जितेश्वरविदिताधिकारपट्प्रतिबद्ध ब्रह्मविद्या (२यद्यपि न मतिं दत्तवती तथापि तत्परिसमाप्नै प्रतिबन्धविगमे दास्यति । यथा च प्रारब्धविपाकस्य कर्मणः प्रश्रयम्पतीश माणश्चरमदेवसमुत्पन्नत्रह्माक्षात्कारोपि म्रियते ऽथ तपश्च


(१) प्रतिबद्धनमिति-पा० ३ । ३ ।
(२) ब्रदोति-नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६४०&oldid=141683" इत्यस्माद् प्रतिप्राप्तम्