पृष्ठम्:भामती.djvu/६३०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[भामती]
[अ२पा ३ ख्.२]
[६२७]

सुकृतदुष्कृते साशादन्यस्मिन्न सम्भवत इत्याशयेन शङ्करा, फ लतः प्राणत्या स्तुतिरिति परिचरः। गुणोपसंचरविवशाया मित्यपि न स्खरूपतः सुकृतदुष्कृतसञ्चाराभिप्रायम् । ननु विद्यागुणोपसंहराधिकारे कोऽयमकाण्डे स्तुत्यर्थविचार इति शङ्कामुपसंहरन्नपाकरोति । “‘तस्माङ णोपसंचारविचारप्रस ढूने”ति । विद्यागुणेपसंहारप्रसङ्गमः स्तुतिगुणोपसंहारो वि चरितः प्रयोजनं चोपासके सैबईमाचरितव्यम्न त्वसै हाईमिति । छन्द एवाच्छन्द अच्छादनादाच्छन्दो भवति । "यथैव चाविशेषेणोपगानमात्र”इति । ऋत्विज उपगायन्ती यविशशेषेणोपगानमत्विजाम् । भाक्षविनतु विशेषेण नाध्व यैरुपगायतीति । तदेतस्माद्भाविनां वाक्यदृत्विज उपगाय नतोत्येतच्छेषं विज्ञायते । एतदुक्तं भवति । अध्वर्युवर्जिता ऋत्विज उपगायन्तीति । कस्मात्पुनरेवं व्याख्यायते । ननु खतन्त्राण्येव सन्तु वाक्यानीत्यत आच। "श्रुत्यन्तरकृतमिति । अष्टदोषदुष्टविकल्पप्रसङ्गभयेन वाक्यान्तरस्य वाक्यान्तरशेष त्वमत्रभवतो जैमिनेरपि संमतमित्याह । "तदुक्तं” द्वादश लक्षण्यम् । अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यादिति । एतदेव ह्त्रमर्थद्वारेण पठति । अपि तु वाक्यशेषत्वादिनरपर्युदासः स्यात् प्रतिषेधे विकल्पः स्यात् स चान्याय्य इति शेषः । एवं किल श्रूयते । एष वै सप्तद शः प्रजापतिर्यज्ञेयज्ञे ऽन्वायत्तइति। ततो नानुयाजेषु येयजाम इं करोति तदत्रानारभ्य कं चिद्यज्ञे यज्ञेषु येयजामशुक रणमपदिष्टम् । तदुपदिश्य चाननं नानुयाजेष्विति । तत्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६३०&oldid=141672" इत्यस्माद् प्रतिप्राप्तम्