पृष्ठम्:भामती.djvu/६१८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[भामती]
[अ-३ पा. ३ .२५]
[६१५]

लिङ्गनं पुरोधाय न धुनेर्विनियोर्तुना ।
श्रुतिशानं पुरोधाय लिट्टे तु विनियोजकम् ॥

यदि चि सामथ्र्यमवगम्य श्रुतेर्विनियोगमवधारयेत् प्र माता । ततः श्रुतेर्वनियोगं प्रति लिङ्गज्ञानापेशत्वाहुर्ब लत्वं भवेत्, न त्वेतदस्ति । श्रुति(१)र्विनियोगाय सामर्थ मपेक्षते नापेक्षते सामथ्र्यविज्ञानम् । अवगते तु ततो वि नियोगे नासमर्थस्य स इति तन्निर्वोदय सामथ्र्यं कन्प्य ते । तसृतिविनियोगात्पूर्वमस्ति सामर्यम् । न तु पूर्वमव गम्यते । विनियोगे तु सिद्धे तदन्यथानुपपत्या पश्चात्प्रती यतइति श्रुतिविनियोगात्परा। चोना सामथ्र्यप्रतीतिस्तदनुरो धेनावस्थापनोया । लिङ्गं तु न स्खतो विनियोजकमपि तु विनियोक्रों कल्पयित्वा श्रुतिम् । तथायि । न स्खरसतो लिङ्गादनेनेन्द्र उपस्थातव्य इति प्रतीयते, किं त्वीदृगिन्द्र इति तस्य तु प्रकरणम्नानसामथ्र्योत् सामान्यतः प्रकरणपा दिनैदमर्यस्य तदन्यथानुपपया विनियोगकल्पनायामपि श्रे ताद्विनियोगात्कल्पनयस्य विनियोगस्वर्थविप्रकर्षाच्छुतिरेव कल्पयितुमुचिता न तु तदर्थे विनियोगः । नहि श्रुत मनुपपन्नं शक्यमर्थेनोपपादयितुम् । नहि त्रयो ऽत्र ब्राह्म णाः कठकैण्डिन्याविति वाक्यं प्रमाणान्तरोपस्थापितेन मा ठरेणोपपादयन्ति उपपादयतो व ननोपहसन्ति शब्दाः माठरश्चेति तु श्रावयन्तमनुमन्यन्ते । तस्माच्छुतार्थसमु त्यानानुपपत्तिः श्रुतेनैवार्थान्तरेणोपपादनया, नार्थान्तरम


(१) धृतिर्दि-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६१८&oldid=141656" इत्यस्माद् प्रतिप्राप्तम्