पृष्ठम्:भामती.djvu/६१७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[अ.२ पा-२ ६.२५]
[भामती]
[६१४]

विभक्तितया क्रिय प्रति प्रकृत्यर्थस्तु कर्मकरणभावमवग मयत इति विनियोजिके क्रियां प्रति यि कर्मणः शेषित्वं करणस्य च शेषत्वमिनि हि विनियोगः पदान्तरानपेक्षे च क्रियां प्रति शेषशेषत्वे श्रुतिमात्रप्रतीयेते इति औते । सोऽयं श्रुतितः सामान्यावगतो विनियोगः पदान्तरवशादि शेषे ऽवस्थाप्यते । सोऽयं विशेषणविशेष्यभाववक्षणः सम्ब न्धे वाक्यगोचरः शेषशेषिभावस्तु प्रेत, तस्माद्दक्यलभ्यं वि शेषमपेक्ष्य चैतः शेषशेषिभावो लिङ्गन विरुध्यतइति अति लिङ्गविरोधे किं लिङ्गानुगुणेन गार्हपत्यमिति द्वितीयाश्रु तिः सप्तम्यर्थे व्याख्यायतां गर्वपत्यसमीपे ऐन्द्रयेन्द्र उप स्थेय इति । आञ्च श्रुत्यनुगुणतया लिी व्याख्यायताम् । प्रभवति वि स्वेचितायां क्रियायां गार्हपत्यइतीन्द्र इन्दते रैश्वर्यवचनत्वादिति किं तावत्प्राप्तं । युनेर्विं बलीय इति । न खलु यत्रासमर्थं । तच्छुतिसञ्चरेणापि तत्र विनियोक्तुं शक्यते । यथा अग्निना सिञ्चेत् पाथसा दहेदिति । तस्मात्सामथ्र्यं पुरोधाय शुच्या विनियोक्तव्यम् । तच्चास्या दृचः प्रमाणान्तरतः शब्दतश्च इन्द्र प्रतीयते । तथाचि । विदितपदतदर्थः कदाचनेच्युचः स्पष्टमिन्द्रमवगच्छति । श ब्दाचैन्द्रयेत्यतःतस्माद्दारुदर्शनस्टव दहनस्य सलिलदहने विनियोगो गाचंपत्ये विनियोग ऐन्द्याः । न च श्रुत्यनुरोधा ब्जघन्यामास्थाय वृत्तिं सामथ्र्यकल्पनेति साम्प्रतम् । सा मर्यस्य पूर्वभावितया तदनुरोधेनैव श्रुतिव्यवस्थापनात् । तस्मादैन्द्धेन्द्र एव गाईपर्यसमीपउपस्थातव्य इति प्राप्ते अ भिधीयते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६१७&oldid=141654" इत्यस्माद् प्रतिप्राप्तम्