च पत्नीयजमानवेदविद्यादिसम्पादनं तैत्तिरीयाणामिव ता ' ण्डिनां यैङ्गिनां वा विद्यते । सवनसम्पत्तिरष्येषां विचक्षणै व । तमाहूय वैलक्षण्ये सति न किञ्चन्मात्रसालशण्या दियैकत्वमुचितमतिप्रसङ्गात् । अपि च तस्यैवं विदुष इ त्यनुवादभृतैौ सत्यामनेकार्थविधाने वाक्यभेददोषप्रसक्तिर्-ि त्यर्थः । अपि चेयं वैङ्गिनां ताण्डिनां च पुरुषयज्ञविद्या फलान्तरयुक्ता स्वतन्त्र प्रतीयते । तैत्तिरीयाणां तु एवं वि दुष इति अवणात् पूर्वोक्तपरामर्शात् तत्फलत्वश्रुतेश्च पार तन्व्यम् । न च स्वतन्त्रपरतन्त्रयोरैक्यमुचितमित्याच । ‘अपि च ससंन्यासामात्मविद्यामि”ति । उपसंहरति।तस्मादि”ति ॥
वेधाद्यथभेदात् ॥ २५ ॥
विचारविषयं दर्शयति । ‘आथर्वणिकानामिति । आ थर्वणिकाद्युपनिषदारम्भे तेते मन्त्रास्तानितानि च प्रवग्य दीनि कर्माणि समानतानि । संशयमाव । “किमिम' - इति । पूर्वपलं गृह्वाति । "उपसंचार एषां विद्याखि”ति । सफला यि सर्वा विद्या आग्नतस्तत्सन्निधे मन्त्राः कर्मा णि च समाम्नतानि फलवत्सन्निधावफलं तदङ्गमिति न्यायाद्दिद्याङ्गभावेन विज्ञायन्ते । चोदयति । “नन्येषा मि"ति । नह्यत्र श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि सन्ति विनियोजकानि प्रमाणानि, नचि यथा दर्शपूर्ण मासादारभ्य समिदादयः समाम्नातास्तथा काञ्चिद्विद्या मारभ्य मन्त्र वा कर्माणि वा समाम्नातानि । न चासेति सामान्यसम्बन्धे सम्बन्धिसन्निधानमात्रत्तार्थसम्भवः । न च