नित्यानुवादो नानुपादानामवश्यं सर्वत्र प्रयोजनवत्वम् । अनुवादमात्रस्यापि तत्र तत्रोपलब्धेः । तस्मात्तदेव तृदार ण्यके ऽयुपासनं तदुणेनोपसंचारादिवदिति सिद्धम् ।
सम्बन्धादेवमन्यत्रापि ॥ २० ॥
यद्यकस्यामपि शाखायां तत्त्वेन प्रत्यभिज्ञानादुपासनस्य तत्र विहितानां धर्माणां सङ्गरः तथा सति सत्यस्यैकस्या भेदान्मण्डलद्वयवनिंन उपनिषदोरपि सद्रप्रसङ्गात्तस्येति च प्रकृतपरामशत्वाद्भदः सत्यस्य च प्रधानस्य प्रकृतत्वात् अधिदैवमित्यस्य विशेषणतयोपसर्जनत्वेनाप्रस्तुतत्वात् प्र स्तुतस्य च सत्यस्याभेदात्यूर्ववङ्गणसङ्कर इति प्राप्तउच्यते ।
न वा विशेषात् ॥ २१ ॥
सत्यं यत्र स्वरूपमात्रसम्बन्धी धर्माणं श्रयते तत्रैवं ख रूपस्य सर्वत्र प्रत्यभिज्ञायमानत्वत्तन्मात्रसम्बन्धित्वाच्च ध र्माणाम् । यत्र तु सविशेषणं प्रधानमवगम्यते तत्र स विशेषणस्यैव तस्य धर्माभिसम्बन्धो न निर्विशेषणस्य नाप्य न्यविशेषणसचूितस्य । नचि दण्डिनं पुरुषमानयेत्युक्ते द एडरहितः कमण्डलुमानानीयते । तस्मादधिदैवं सत्यस्य पनिषदुक्ता न तस्यैवाध्यात्मं भवितुमर्हति । यथा चाचार्यस्य गच्छतो ऽनुगमनं विदितं न तिष्ठतो भवति तस्मान्नोपनि षदोः संकरः किंतु व्यवस्थितिः । तदिदमुक्तं स्वरूपानपाया दिति ॥
दशयति च ॥ २२ ॥
अनिदेशादप्येवमेव तत्त्वे वि नानिदेशः स्यादिति ॥