पृष्ठम्:भामती.djvu/६०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.३.१०]
[६०२]

सत्तासामान्याभिधायित्वात्प्रतिव्यक्ति च तस्य प्रवृत्तेरात्मनि चान्यत्र च सच्छब्दप्रवृत्तेः संशये सत्युपसं चारानुरोधेन स= देवेत्यात्मन्येवावस्थाप्यते । निर्णीतार्थोपक्रमानुरोधेन धूप संसारवर्णना न पुनः संदिग्धार्थेनोपक्रमेणोपसंचारो वर्ण नयः । अपि च संपत्तै फलं कल्पनीयम् । न च सा मान्यमात्रे शते विशेषज्ञानसंभवः । न खल्वारादृके शाते शिंशपादयस्तद्विशेषा ज्ञाता भवन्ति । तदेवमवधारणादि सर्व मनात्मार्थत्वे स्यादनुपपन्नमिति छान्दोग्यस्यात्मार्यत्वमेवेति सिद्धम् । अत्र च पूर्वस्मिन्पूर्वपक्षे हिरण्यगर्भपासना सिहा न्त तु ब्रह्मभावनेति ।

कायख्यनदपूवम् ॥ १८ ॥

विषयमाद "छन्दोगा वाजसनेयिनश्चे"ति । अननं प्र एनं अनः प्राणः तं प्रणमननं कुर्वन्तः अनन्ताचिन्तनमि ति मन्यन्तइति मननं ज्ञानं तानपर्यन्तमिति चिन्त नमु क्तम् । संशयमाच "प्तत्किमि”ति । खररवमात्रेणपातत उ भयविधानपञ्च गृहीत्वा मध्यमं पक्षमाजस्वते पूर्वपकी । "अथ वाचमनमेवेति । यद्यवमनन्तासंकीर्मनस्य किं प्र योजनमित्यत आद । तस्यैव तु स्तुत्यर्थमि”ति । अयमभि संधिः । यद्यपि कर्तुं प्रायत्यार्थमाचमनविधानमस्ति तथापि प्राणोपासनप्रकरणे विधनात्तदङ्गत्वेनाप्राप्तमिति विधानम र्थवद्भवति अनुतवदनप्रतिषेध इव स्मार्ते ज्योतिष्टोमप्रकरणे समास्ततो नानृतं वदेदिति प्रतिषेधो ज्योतिष्ठेमङ्गतया र्थवानिति । राझान्तमाङ “'एवं प्राप्त’इति । चोदयति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६०६&oldid=141641" इत्यस्माद् प्रतिप्राप्तम्