वाक्येन पूर्वदेवतापनयं कृत्वा ये मधमा इत्यादिभिर्वाक्यै दैवतान्तरसम्बन्धः कृतः । न च प्रभूतदधिपयःसंसक्तैरल्पैस्त ण्डुलैः पुरोडाशक्रिया सम्भवति । इति पुरोडाशनिवृत्तै तदर्थस्य प्रथनस्यापि निवृत्तिरनिवृत्तस्तु पाको ऽपवादभावा त्तथा चार्थप्राप्तश्चोद्यते । भवतु वा अनेकवाक्यकल्पनम् । प्रकृताधिकारावगमबलादस्यापि न्याय्यत्वादिति । तस्मात्त देवेदं कर्म न तु कर्मान्तरमिति सिहं, पशुकमवाक्ये त्व पूर्वकर्मविधिरभ्युदयवाक्यसारूप्येपि यः पशुकामः स्यात्सो मावास्यायामिष्टा वत्सानपाकुर्यात्, ये स्थविष्ठास्तनयनये स निमतेष्टाकपालं निर्वपेत् ये मध्यमास्तान् विष्णवे शिपि विष्टाय शते चरुम् । ये शेदिष्ठास्तानिन्द्राय प्रदाने दधैश्चरुमि ति । अत्र हि अमावास्यायामिष्ठेति समाप्ते यागे पशुकामे ष्टिविधानं नात्र पूर्वस्य कर्मणो ऽननुवृत्तेर्यागान्तरविधिरिति युक्तम् । परोवरीयस्वादिवद्, यथोद्गीथोपासनासाम्येपि आदि त्यगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोङ्कथोपासनातः परोवरी यस्वगुणविशिष्टोीथोपासना भिन्न तद्वदिदमपीति । पर मात्परश्च वराच्च वरीयानिति परोवरीयानुकीयः परमात्म रूपः संपन्नः । अत एव अनन्तः परमात्मदृष्टिमुद्वीथे भा वयितुमाकाशो धैवैभ्यो भूतेभ्यो ज्यायानित्याकाशशब्देन प रमात्मानं निर्दिशति ॥
सज्ञातयेत्तदुक्तमस्ति तु तदपि ॥ ८॥
स्फुटतरे भेदावगमे स्नैकत्वं नाभेदसाधनमतिप्रसङ्गा पातात् । अपिच श्रुत्यक्षरालोचनयाभेदप्रत्ययोऽन्तरङ्ग