पृष्ठम्:भामती.djvu/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[प्र. ३ पा-२.२५]
[५७१]

नान्यादृशः स्वाभाविक इत्यर्थः ।

तथान्यप्रतिषेधात् ॥ ३६ ॥

सुगमन भाष्यण व्याख्यातम् ।

अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥

ब्रह्मादैतसिद्धावपि न सर्वगतत्वं सर्वव्यापिता सर्वस्य ब हाण खरूपेण रूपवत्वं सिध्यतीत्यत आच । 'अनेन सेल्वादिनिराकरणेनॐ परचेतुनिराकरणेनान्यप्रतिषेधसमाश्रः यणेन च खसांधनोपन्यासेन च सर्वगतत्वमप्यात्मनः सिई भवति । अने सिते सर्वेयमनिर्वचनीयः प्रपञ्चावभा सो ब्रह्माधिष्ठान इति सर्वस्य ब्रह्मसंबन्धाब्रह्म सर्वगतमिति

सिद्धम् । फलमत उपपत्तेः ॥ ३८ ॥

सिदान्तोपक्रममिदमधिकरणम् । स्यादेतत् । नित्यश् बुहमुक्तखभावस्य ब्रह्मणः कुत ईश्वरत्वं कुतश्च फलहेतुत्व मपात्यत आव । ‘तस्यैव ब्रह्मणो व्याववरिक्य’मिति । नास्य पारमार्थिकं रूपमाश्रित्यैतच्चिन्त्यते किंतु सांव्यवहा रिकमेतच्च तपसा चीयते बलेति व्याचक्षाणैरस्माभिरुपपा दितम् । इटं फलं खर्गः । यथाहुः ।

‘यन्न दुःखेन संभिनं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनतं च सुखं स्वर्गपदास्यदम्’ ।। इति ।

अनिष्टमवीच्यादिस्थानभोग्यं व्यामिश्रे मनुष्यभोग्यम् । तत्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५७६&oldid=141595" इत्यस्माद् प्रतिप्राप्तम्