सामग्री पर जाएँ

पृष्ठम्:भामती.djvu/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा-२ .२२]
[५६३]

तदेवं निरवशेषं सवासनं सत्यरूपमुक्ता यत्तत्सत्यस्य सत्य मुक्तं ब्रह्म तत्सरूपावधारणार्थमिदमारभ्यते। यतः सत्यस्य रूपं निःशेषमुक्तमतोव शिष्टं सत्यस्य यत्सत्यं तस्यानन्तरं तदुक्तिहेतुकं खरूपं वक्तव्यमित्याह । "अयात आदेशः” । कथनम् । सत्यसत्यस्य परमात्मनस्तमात्र । ‘नेतिनेति” । एतदर्थकथनार्थमिदमधिकरणम् । ननु किमेतावदेवश्यमुनेतः परमन्यदप्यस्तोयत आय । “नद्वैतस्माद्वृण” इति । नेत्या दिष्टादन्यस्परमस्ति यदादेश्यं भवेत् । तस्मादेतावदेवादेयं नापरमस्तीत्यर्थः । अत्रैवमर्थेनेतिना यत्संनिचितं परादृष्टं तन्निषिध्धने न सन्निचितं च मूर्तामूर्तसवासनं रूपद्द यम् । तदवच्छेदकत्वेन च ब्रह्म । तत्रेदं विचार्यते । किं रूपइयं सवसनं ब्रह्म च सर्वमेव च प्रतिषिध्यते, उन ब्रह्मोवाथ सवासनं रूपद्वयं ब्रह्म तु परिशिष्यतइति । यद्यपि तेषुतेषु वेदान्तप्रदेशेषु ब्रह्मखरूपं प्रतिपादितं तदसद्भावज्ञानं च निन्दितम् । अस्तीत्येवोपलब्धव्य इति चास्य सत्त्वमवधारितं तथापि सदोधरूपं तद्वद् सवसन मूर्तामूर्तरूपसाधारणतया च सामान्यं तस्य चैते विशशे षा मूर्तामूर्तादयो न च तत्तद्विशेषनिषेधे सामान्यभवस्या तुमर्हनि निर्विशेषस्य सामान्यस्यायोगात् (९ । यथाहुः । ‘निर्विशेषं न सामान्यं भवेच्छशविषाणवन्’ । इति । तस्मात्तद्विशेषनिषेधेपि तत्सामान्यस्य ब्रह्मणेनवस्थाना त्सर्वस्यैवायं निषेधः । अत एव । नद्वैतस्मादिति नेल्य


(१) सामान्यस्यायस्थानायोगात -पा० २ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५६८&oldid=141581" इत्यस्माद् प्रतिप्राप्तम्