पृष्ठम्:भामती.djvu/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ. ३ पा.२ष.७ ]
[५४९]

विचारेणेति । किं तावत्प्राप्तं, नाडीपुरीतत्परमात्मसु स्थानेषु सुषुप्तस्य जीवस्य निलयनं प्रति विकल्पः। यथा बहुषु प्रासा देवेको नरेन्द्रः कदा चिक्वचिन्निलोयते कदा चिक्व चिदेव मेको जीवः कदा चिन्नाडीषु कदा चित्पुरोतसि कदा चि ब्रह्मणीति । यथा निरपेश वीडियवाः क्रतुसाधनीभूनपुरो डाशप्रकृतितया धृत एक विकल्प्यन्ते । एवं सप्तमी श्रुत्वा वा ऽऽयतनभृत्या वैकनिलयनार्थाः परस्परानपेशा नाद्यादयोपि विकरूपमर्हन्ति । यत्रापि नाडीभिः प्रत्यय ष्य पुरोतति शेतइति नाडोपुरोनतोः समुच्चयश्रवणं तथा तासु तदा भवति यदा सुप्तः खप्नं न कं चन पश्य ति । अथास्मिन्प्राण एवैकधा भवतीति नाडोब्रह्मणेराधा रयोः समुच्चयश्रवणम् । प्राणशब्दं च ब्रह्मथास्मिन् प्राणे ब्रह्मणि स जोव एकधा भवतीति वचनात् । तथाप्यास तदा नाडीषु स्वप्नो भवतीति च पुरीतति शेतइति च नि रमेशयोर्नाडीपुरीतनोराधारत्वेन निर्देशान्निरपेक्षयोरेवाधा रत्वम् । इयांस्तु विशेषः । कदा स चिन्नय एवाधारः कदा चिन्नाडीभिः संचरमाणस्य पुरोतदेव । एवं ताभिरेव संच रमाणस्य कदा चिद्रौवाधार इति सिद्धमाधरत्वे नाडी पुरीतत्परमात्मनामनपेक्षत्वम् । तथा च विकल्पो ब्रादि यववद्युद्रथन्तरवहेति प्राप्तम् । एवं प्राप्ते ऽभिधीयते । जीवः समुच्चयेनैवैतानि नाशदोनि स्खपायोपैति न विक ल्पेन । अयमभिसंधिः । नित्यवदाम्नातानां यत्याशिवं नाम तद्वत्यन्तराभावे कल्प्यते । यथाहुः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५५४&oldid=141565" इत्यस्माद् प्रतिप्राप्तम्