नाविरुध्यमानं नात्मानं लभतइति भावः । बन्धमोक्षयोरा न्तरालिकं त्वतीयमैश्वर्यमिति । ‘पराभिध्यानात्त तिरोहितं ततो ह्यस्य बन्धविपर्यय’ 'देवयोगादासोपी’ति सूत्रद्वयं कृतोपपादनमस्माभिः प्रथमसूत्रे । निगदव्याख्यानं चैनेयो र्भाव्यमिति ॥
तदभावो नाडीषु तच्छूतेरात्मनि च ॥ ७ ॥
इच हि नाडीपुरीतत्परमात्मानो जीवस्य सुषुप्तावस्था यां स्थानत्वेन श्रूयन्ते । तत्र किमेषां स्थानानां विकल्प आशु खिसमुच्चयः । किमतो, यद्यवम् । एतदतो भवति । यदा नायो वा पुरीतदा सुषुप्तस्थानं तदा विपरीतग्रहण निवृत्तावपि न जीवस्य परमात्मभाव इति । अविद्यानिवृ त्तावपि जीवस्य परमात्मभावाय कारणान्तरमपेशितव्यं तच्च कमैव न तु तत्वज्ञानं विवरीतज्ञाननिवृत्तिमात्रेण तस्योप योगान् विपरीतज्ञाननिवृत्तेश्च विनापि तत्त्वज्ञानं सुषुप्ता वपि संभवात् । ततश्च कर्मणैवापवर्गे न ज्ञानेन । यथाहुः
कर्मणैव तु संसिद्धिमास्थिता जनकादयः । इति ।
अथ तु परमात्मैव नाडी पुरोनतिद्वारा सुषुप्तिस्थानं ततो विपरीतज्ञाननिवृत्तेरस्ति मात्रया परमात्मभावोपयो गः । तयो वि तावदेष जीवरक्षतदवस्थानो भवनि केवलम् । तत्त्वज्ञानाभावन समूलकाषमवद्याया अकाषात् जाग्रस्ख नलक्षणं जीवस्य व्युत्यांनं भवति । तस्मात्प्रयोजनवत्येषा