पृष्ठम्:भामती.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र-२ पा ४ ६.५]
[५०६]

येवमेवेत्याच । "विशेषितत्वाच” । “सप्त वै शीर्षण्याः प्राण” इति । ये सप्त शीर्षण्याः श्रोत्रादयस्ते प्राण इ युक्ते इतरेषामशीर्षण्यानां हस्तादोनामप्राणत्वं गम्यते । यथा दक्षिणेनाक्ष्ण पश्यतीत्युक्ते वामेन न पश्यतीति ग म्यते । एतदुक्तं भवति । यद्यपि श्रुतिविप्रतिषेधो यद्यपि च पूर्व संख्यातु न परासां संख्यानां निवेशस्तथा ऽप्यव छेदकत्वेन बहूनां संख्यानामसंभवादेकस्य कल्प्यमानायां सप्तत्वमेव युक्तं प्राथम्याघवाचवृत्तिभेदमात्रविवशया त्वष्टत्वादयो गमयितव्या इति प्राप्तम् । एवं प्राप्ते उच्यते ।

हस्तादयस्तु स्थिते ऽतो नैवम् ॥ ६॥

तुशब्दः पकं व्यावर्तयति न सप्तैव, किं तु वस्तादयो पि प्राणाः । प्रमाणान्तरादेकादेशत्वे प्राणानां स्थिते ऽतो । ऽस्मिन् सति सार्वविभक्तिकस्तसिः । नैवम् । लाघवात्मा थस्याच्च सप्तत्वमित्यक्षरार्थः । एतदुक्तं भवति । यद्यपि श्रुतयः स्खतः प्रमाखनया ऽनपेशास्तथापि परस्परविरोधान्न र्थतत्त्वपरिच्छेदायालम् । न च सिद्धे वस्तुनि अनुष्ठानइव विकल्पः संभवति । तस्मात्प्रमाणान्तरोपनतार्थवशेन व्यव स्थायन्ते । यथा ब्रुवेणावद्यतीति मांसपुरोडाशावदानासं भवात् संभवाच द्वावदानस्य() खुवावदाने द्रवाणाति व्य वस्थाप्यते । एवमिहापि रूपादिबुद्धिपञ्चककार्यव्यवस्थात चक्षुरादिबुद्धीन्द्रियकरणपञ्चकव्यवस्था । नह्यन्धादयः स


(१२) द्रवरूव्यावदानस्य-पा१ २ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५१४&oldid=141521" इत्यस्माद् प्रतिप्राप्तम्