तोतानागतवेपि प्रमातुः सदा वर्तमानत्वेनानुभवादयुत खभावस्य नागन्तुकं सत्त्वम् । ‘काख्यावच्छेदेन वागन्तु कत्वं व्याप्तं तत्प्रमातुः सदा वर्तमानाद्यावर्तमानमागन्तुकवं खव्याप्यमादाय निवर्ततइति । "अन्यथाभवत्यपि शन व्य’ इति । प्रकृतिप्रत्ययाभ्यां ज्ञानज्ञेययोरन्यथाभावो दर्शि तः । ननु जीवतः प्रमातुर्मा भूदन्यथाभावो म्डनस्य तु भविष्यतीत्यत आद । “तथा भस्मीभवत्यपीति । यखलु सत्यभावमनुभवसिई तस्यानिर्वचनयत्वमन्यते बाधकादव सातव्यम् । बाधकं च घटादीनां खभावादिचखनं प्रमा णोपनोतं, यस्य तु न तदस्यात्मनो न तस्य तत्कल्पनं युक्तमबाधितानुभवसिद्धस्य सत्वभावस्यानिर्वचनीयत्वकल्पना प्रमाणाभावात् । तदिदमुक्तं “न संभावयितुं शक्य’मिति । तदनेन प्रबन्धेन प्रत्यनुमानेनाकाशानुत्पत्यनुमानं दूषयित्वा नैकान्तिकत्वेनापि दूषयति । “यत्तूक्तं समानजातीयमि ति । नाप्यनेकमेवोपादानमुपादेयमारभते यत्र वि शरं दधिभावेन परिणमते तत्र नावयवानामनेकेषामुपादान त्वमभ्युपगन्तव्यं, किं ह्यपात्तमेव क्षीरमेकमुपादेयदधिभावेन परिणमते । यथा निरवयवपरमाणुवादिनां क्षीरपरमाणुर्द धिपरमाणुभावेनेति । शेषमतिरोचितार्थम् ॥
एतेन मातरिश्वा व्याख्यातः॥ ८॥
यद्यभ्यासे ध्रयस्वमर्थस्य भवति नालपत्रं दूरत एवोप चरितत्वं हन्त भोः पवनस्य नित्यत्वप्रसङ्गः । वायुश्चान्तरि