पृष्ठम्:भामती.djvu/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा-२. २९]
[भामते]
[४६२]

योजना । एकशरीरपरिमाणतैवेति च दीप्यम् । द्वितीये तु व्याख्याने उभयोरवस्थयोरिति योजना । एकशरीरप रिमाणता न दोष्याः किं त्वेकपरिमाणतामात्रमर्मचान्वेति विवेकः ।

पत्युरसमबजस्यत ॥ ३७ ॥

अविशेषेणेश्वरकारणवादोनेन निषिध्यतइति भ्रमनिवृत्य र्थमाद । "केवले"ति । सांख्ययोगव्यपाश्रया चिरण्यगर्भ पतञ्जलिप्रभतयः । प्रधानमुक्तं दृक्शक्तिः पुरुषः प्रत्ययानु पश्य । स च नानाक्लेशकर्मविपाकाशयैरपराम्हृष्टः पुरुष विशेष ईश्वरः प्रधानपरुषाभ्यामन्यः । माहेश्वराश्चत्वारः शैवाःपाइएपसःकारुणिक सिद्दान्तिनःकापालिकाश्चेति । चत्वारोप्यमी मधेश्वरप्रणीतसिद्धान्तानुयायिनया() माहेश्वराः। कारणमीश्वरः । कार्यं प्राधानिकं मखदादि । योगोप्याह रादिध्यानधारणादिः । विधिविषवणस्नादिढचर्यावसा नो()दुःखान्तो मोशः । पशव आत्मानस्तेषां पाशो बन्धनं सद्विमोक्षे दुःखान्तः । एष तेषामभिसंधिः। चेतनस्य खस्थ धिष्ठातुः कुम्भकारादे कुम्भादिकार्ये निमित्तकारणत्वमात्रं न वपादानत्वमपि । तस्मादिचापीश्वरोधिष्ठाता जगत्कारणानां निमित्तमेव, न तृपादानमप्येकस्याधिष्ठातृत्वाधिष्ठेयत्वविरो धादितिं प्राप्तम् । एवं प्राते ऽभिधीयते । पत्युरसामजस्यादि Iत । इदमत्राकृतम् । ईश्वरस्य निमित्तकारणत्वमात्रमागमा


(१) सिबान्तानुगामितया-प० १ । २ । ३ ।
(२) गूइयभूमिशय्याय सानो-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४६७&oldid=141249" इत्यस्माद् प्रतिप्राप्तम्