पृष्ठम्:भामती.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२पा-२.१८]
[४१७]

निरित्यञ्च । "क्षणिकत्वाभ्युपगमाच्चेति ॥

इतरेतरप्रत्ययत्वादिति चेन्नोत्पतिमननिमित्तत्वात् ॥ १९ ॥

यद्यपीति । अयमर्थः । संक्षेपतो हि प्रतीत्य समुत्पादलश णमुक्तं बुद्धेन ‘इदं प्रत्ययफलमिति । उत्पादाद्वा तथाग तानामनुत्पादाद्वा स्थितैवैषा धर्माणां धर्मता धर्मस्थितिता धर्मनियामकता प्रतीत्य समुन्यादानुलोमतेति । अथ पुन रयं प्रतीत्य समुत्पादो द्वाभ्यां कारणाभ्यां भवति चेढप निबन्धतः प्रत्ययोपनिबन्धतश्च । स पुनर्विविधः । बाह्य आध्यात्मिकश्च । तत्र बाख़स्य प्रतीत्य समुत्पादस्य चेत् पनिबन्धः । यदिदं बजादडुरोडुरात्पत्रं पत्रात्काण्डं का एण्डान्नलो नालाङ्गभं गर्भाङ्कः एकात्पुष्पं पुष्यात्फल मिति । असति बीजेड्रो न भवति, यावदसति पुष्पे फलं न भवति । सति तु बीजे ऽहुरो भवति, यावन्पुष्ये । सति फलमिति । तत्र बीजस्य नैवं भवति ज्ञानमद्दम डुरं निर्वर्नयामीति । अङ्रस्यापि नैवं भवति ज्ञानमहं बीजेन निर्वर्तत इति । एवं यावत्पुष्यस्य नैवं भवति, अङ फलं निर्वर्तयामीति । एवं फलस्यापि नैवं भवत्यहं । पुष्पेणाभिनिर्वर्तितमिति । तस्मादसत्यपि चैतन्ये बीजादी नामसत्यपि’ चान्यस्मिन्नधिष्ठातरि कार्यकारणभावनियमो दृश्यते । उक्ती वेढपनिबन्धः । प्रत्ययोपनिबन्धः प्रतीत्य समुत्पादयोच्यते । प्रत्ययो वेढनां समवायः । हेतुंहेतुं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४२२&oldid=141167" इत्यस्माद् प्रतिप्राप्तम्