पृष्ठम्:भामती.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-९ पा.२.१७]
[भामती]
[४१२]

"किं चान्यन् । परमाणूनामिति । ये च परिच्छिन्नस्ते सावयषाःयथा घटादयः । तथा च परमाणवतआत्मा वयवा अनित्याः (९) स्युः। अपरिच्छिन्नत्वे चाकाशादिवत्प रमाणुत्वव्याघातः । शङ्कते। “यस्वमिति । निराकरोति। "न स्यूचे"ति । किं वात्परमाणवो न विनश्यन्त्यथ निरवयवतया, तत्र पूर्वक्षिन् कल्पे इदमुक्तम् । “वस्तु तापी”ति । भवन्मते उत्तरं कल्पमाशय निराकरोति । "विनश्यन्तोष्यवयवविभागेने”ति । "यथा चि घतसुवर्ण दीनामविभज्यमानावयवानामपी”ति । यथा दि पिष्टपि पडे ऽविनश्यदवयवसंयोग एव प्रथते प्रथमानश्चाश्वशफा कारतां नीयमानः पुरोडाशतामापद्यते, तत्र पिण्डो न श्यति पुरोडाशश्चेत्पद्यते, न च तत्र पिणडावयवसंयोगा विनश्यन्ति, अपि तु संयुक्ता एव सन्तः परं प्रथनेन नुद्यमाना अधिकदेशव्यापका भवन्ति, एवमग्निसंयोगेन सुवर्णद्रव्यावयवाः संयुक्ता एव सन्ते इवोभावमापद्यन्ते, न तु मिथो विभज्यन्ते । तस्माद्यथावयवसंयोगविनाश वन्तरेणापि सुवर्णपिण्ड विनश्यति संयोगान्तरोत्पादम न्तरेण च सुवर्णं द्रव उपजायते, एवमन्तरेणाप्यवयवसं योगविनाशं परमाणवो विनडच्छन्त्यन्ये चोत्पत्स्यन्तइति । सर्वमवदांतम् ॥


(९) सावयवास्तथा न साबया अनित्पा:-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४१७&oldid=141162" इत्यस्माद् प्रतिप्राप्तम्