पृष्ठम्:भामती.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.२६.१७]
[४११]

या तु पिता पुत्रः पुत्रो धाता जामातेति । निदर्शना न्तरमाच । ‘यथा चैकापि सती रेखे"ति । दार्थन्तिके योजयति । ‘तथा संबन्धिनोर्भरिति । अयनैरन्तर्ये संयोगो, दधिकुण्डयोरौत्तराधर्ये संयोगः । कार्यकार णयोस्तु तादात्म्येप्यनिर्वाच्यस्य कार्यस्य भेदं विवशित्वा सं बन्धिनोरित्युक्तम् । “नापि संबन्धिविषयत्वे संबन्धशब्दप्रय ययो”रित्येतदप्यनिर्वाच्यभेदाभिप्रायम् । अपि चादृष्टवक्षत्र शसंयोगात्परमाणुमनसोश्चायं कर्म भवद्भिरिष्यते । अग्नेरू ध्र्धञ्चलनं, वायोस्तिर्यक् पवन ,मणुमनसोश्चायं कर्मत्वदृष्ट (९)कारितानीति वचनात् । न चाणुमनसोरात्मना ऽप्रदेशेन संयोगः संभवति । संभवे चाणुमनसोरात्मव्यापित्वान् प रममहत्त्वेनानणुत्वप्रसङ्गात् । न च प्रदेशवृत्तिरनयोरात्म ना संयोगो ऽप्रदेशत्वादात्मनःकल्पनायाश्च वस्तुतत्त्वव्य वस्थापनासहत्वादतिप्रसङ्गादित्याच । "तथा ऽखत्ममन सा"मिति । किं चान्यद् द्वाभ्यामणुभ्य कारणाभ्य (२) सा वयवस्य कार्यस्य द्व्यणुकस्याकाशेनेव संश्लेषानपपत्तिः । संशलेषः संग्रहो यत एकसंबन्ध्याकर्षे संबन्ध्यन्तराकर्षे भवति तस्यानुपपत्तिरिति । अत एव संयोगादन्य कार्यका रणद्रव्ययोराश्रयाश्रितभावोऽन्यथा नोपपद्यतइत्यवश्यं क ल्पनीयः समवाय इति चेत् । निराकरोति । “न,"कुतः । “इतरेतराश्रयंत्वात्” । तद्विभजते । “कार्यकारणयोर्ल”ति।


(१) कर्मेत्यैतान्यदृष्ट--पा० २ ॥
(२) 'करणाभ्य’-२ पुस्तके नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४१६&oldid=141161" इत्यस्माद् प्रतिप्राप्तम्