नेकविधोच्चावचक्प्रपञ्चजगद्धिमविरचना मञ्चप्रयासा । अ त एव लोलापि परास्ता । अल्पायाससाध्या दि सा न चेयमप्यप्रयोजना तस्या अपि । सुखप्रयोजनवत्वात्तादर्थेन वा प्रवृत्तं तदभावे कृतार्थत्वानुपपत्तेः परेषां चोपकार्या णामभावेन९) सदुपकाराया अपि प्रवृत्तेरयोगात् । तस्मा त्रंशावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता तदभावेनुपपन्ना ब्र दोपादानतां जगतः प्रतिबिंपतीति प्राप्तम् । एवं प्राप्ते । ऽभिधीयते ।
लोकवतु लीलाकैवल्यम ॥ ३३ ॥
भवेदेतदेव(२) यदि प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता भवेत्ततस्तन्निवृत्तै निवर्तेतशिंशपात्वमिव वृश्चतानिवृत्तै न त्वेतदस्ति प्रेशवतामननुसंचितप्रयोजनानामपि यादृच्छिकीषु क्रियासु प्रवृत्तिदर्शनात् । अन्यथा ( ‘न कुर्वीत वृथा चेष्टा मिति धर्मसूत्रकृत प्रतिषेधो निर्विषयः प्रसज्येत । न चो न्मत्तान्प्रत्येतह्त्रमर्थवत्तेषां तदर्थबोधतदनुष्ठानानुपपत्तेः । अपि चादृष्टचेतुकेत्पत्तिकी श्वासप्रश्वासलक्षण प्रेशवत कि या प्रयोजनानुसंधानमन्तरेण दृष्टा न चास्य चेतनस्यापि चैतन्यमनुपयोगि संप्रसादेषि भावादिति युक्तं प्राज्ञस्यापि चैतन्याप्रयुतेरन्यथा हृतशरीरेपि श्वासप्रश्वासप्रवृत्तिप्रस जात् । यथा च स्वार्थपरार्थसंपदासादितसमस्तकामानां
(१) अभावे-पा० १ । २ । ३ ।
(२) भवेदेवं—पा २ ।