सीन कारणात्मत्वव्याघातात् । नचि तदेव तदानीमेवा ' स्ति नास्ति चेति युज्यते । किं चेदं मणिमन्नैषधमि जालं कार्येण शिक्षितं यदिदमजातानिरुद्धातिशयमव्य वधानमविदूरस्थानं च तस्यैव तदवस्थेन्द्रियस्य पुंसः कदा चित्प्रत्यक्षे परोक्षे च यनास्य कदा चित्प्रत्यक्षमुपलम्भनं कदा चिदनुमानं कदा चिदागमः । कार्यान्तरव्यवधि रस्य पारोच्यहेतुरिति चेत्, न । कार्यजातस्य सदातन त्वात् । अथापि स्यात्कार्यान्तराणि पिण्डकपालशर्कराचूर्ण कणप्रभृतीनि कुम्भं व्यवदधते, ततः कुम्भस्य पारोच्यं क दा चिदिति । तन्न । तस्य कार्यजातस्य कारणात्मनः सदातनत्वेन सर्वदा व्यावधानेन कुम्भस्यात्यन्तानुपलब्धि प्रसङ्गात् । कादाचित्कत्वे वा कार्यजातस्य न कारणा त्मत्वं, नित्यत्वानित्यत्वलक्षणविरुद्धर्मसंसर्गस्य भेदकत्वा त् । भेदाभेदयोश्च परस्परविरोधेनैकत्र सद्मसंभव । इत्यु क्तम् । तस्मात्कारणाकार्यमेकान्तत एव भिनम् । न च भेदे गवाश्ववत्कार्यकारणभावानपपत्तिरिति साम्प्रतम् । अभेदेपि कारणरूपवत्तदनुपपत्तेरुक्तत्वात् । अत्यन्तभेदे च कुम्भकुम्भकारयोर्निमित्तनैमित्तिकभावस्य दर्शनात् । तस्मा दन्यत्वाविशेषेपि समवायभेद एवोपादानोपादेयभावनियम वेतुः । यस्याभूत्वा भवतः समवायस्तदुपादेयं, यत्र च सम वायस्तदुपादानम् । उपादानत्वं च कारणस्य कार्यादप परिमाणस्य दृष्टं यथा तन्वादीनां पटाद्युपादानानां पटा दिभ्यो न्यून्परिमाणत्वम् । चिदात्मनस्तु परममस्त उपा
पृष्ठम्:भामती.djvu/३५०
दिखावट