पृष्ठम्:भामती.djvu/३४२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[भामती]
[अ.२ पा.१ ष.४]
[३२७]

हृत्रमवतारयति । अत उत्तरं पठति” ॥

अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम ॥ ५ ॥

विभजते । “तुशब्द’इति । नैताः शुनयः साक्षान्ड दादीनां वागादीनां च चैतन्यमाहुरपि तु तदधिष्ठात्रीणां देवतानां चिदात्मनां, तेनैतच्छतिबलेन न म्हृदादीनां वा गादीनां च चैतन्यमाशङ्कनयमिति । कस्मात् पुनरेतदेव मित्यत आह । ‘विशेषानुगतिभ्याम्” । तत्र विशेषं व्या चष्टे । "विशेषे च”ति । भोक्तृणामुपकार्यत्वाद् भूतेन्द्रियाणां चेपकारकत्वात् साम्ये च तदनुपपत्तेः सर्वजनप्रसिद्धेश्च 'वि- ज्ञानं चाभवदिति श्रुतेश्च विशेषश्चेतनाचेतनचक्षणः प्रागु क्त स नेपपद्यते । देवताशब्दकृते वात्र विशेषे विशेषशब्दे नेच्यनइत्याह । “‘अपि च कैषीतकिनः प्राणसंवाद"इति । अनुगतिं व्याचष्टे । "अनगताश्चेति । सर्वत्र भूतेन्द्रियादिध्व नुगता देवता अभिमानिनीरुपदिशन्ति मन्त्रादयः । अपि च भूपस्यः मुनये ऽग्निर्वाग् श्रुत्वा मुखं प्राविशद्वायुः प्राणे भवा नासिके प्राविशदादित्यश्चक्षुर्भूत्वा ऽशिण प्राविश'- दित्यादय इन्द्रियविशेषगता देवता दर्शयन्ति । देवनाञ्च क्षेत्रज्ञभेदाश्चेतनाः । तस्मान्नेन्द्रियादीनां चैतन्यं रूपत इति । अपि च प्राणसंवादवाक्यशेषे प्राणानामस्मदादिश रीराणामिव क्षेत्रज्ञाधिष्ठितानां व्यवधरं दर्शयन् प्राणानां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३४२&oldid=141047" इत्यस्माद् प्रतिप्राप्तम्