पृष्ठम्:भामती.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१ पा.४ द. २२]
[भामती]
३२०

भेदो बुद्दिव्यपदेशभेदावयं च परमात्मा एडविज्ञानानन्द खभाव इमे च जीवा अविद्याश्शेकदुःखद्युपद्रवभाज इति वर्तयति । अविद्योपधानं च यद्यपि विद्याखभावे परमा त्मनि न साक्षादस्ति तथापि तत्प्रतिबिम्बकल्पजीवदारेण प रस्मिन्नच्यते । न चैवमन्योन्याश्रयो जीवविभागाश्रया विद्या, अविद्याश्रयश्च जीवविभाग इति, बजाडुरवदनादित्वात् । अत एव कानुद्दिश्यैष ईश्वरो मायामारचयत्यनर्थिकामुद्दे श्यानां सर्गादे जोवानामभावात् कथं चात्मानं संसारिणं विविधवेदनाभाजं कुर्यादित्याद्यनुयोगे निरवकाशः न ख ल्वादिमान् संसारो नाप्यादिमानविद्याजोवविभागे येनानु युज्येतेति । अत्र च नामग्रचणेनाविद्यामुपलक्षयति । स्यादे तत् । यदि न जोवाइ ह्म भिद्यते ऽन्त जीवः स्फुट इति ब्रह्मापि तथा स्यात्तथा च निश्चितं गुञ्चयामिति नोपपद्यत इत्यत आश्रय । ‘नचि सत्यमिति । यथा हि बिम्बस्य मणि कृपाणादयो गुच एवं ब्रह्मणेपि प्रतिजीवं भिन्ना अविद्या गुञ्च इति । यथा प्रतिबिम्बेषु भासमानेषु बिम्बं तदभिन्न मपि गुह्यमेवं जीवेषु भासमानेषु तदभिन्नमपि ब्रह्म गु ह्यम् । अस्तु तईि ब्रह्मणे ऽन्यद्रुह्यमित्यत आच । ‘न च ब्रह्मणे ऽन्य” इति। ये त्वाश्मरथ्यप्रभृतयो "निर्बन्धं कुर्वन्ति ते वेदान्तार्थमिति । ब्रह्मणः सर्वात्मना भागशे वा परिणा माभ्युपगमे तस्य कार्यत्वादनित्यत्वाच्च तदाश्रितो मोक्षेपि । तथा स्यात् । यदि त्वेवमपि फलं नित्यमकृतक ब्रूयुस्त त्राश्च । "न्यायेनेति । एवं ये नदीसमुद्रनिदर्शनेनामुक्ते

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३२५&oldid=141029" इत्यस्माद् प्रतिप्राप्तम्