पृष्ठम्:भामती.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १पा-३ ख.३४]
[भामती]
[२६४]

बद्धमेवं स्वाध्याय इति । तस्मात्रेष क्रत्वर्थे नियमे नापि पुरुषार्थे । पुरुषेच्छाधीनप्रवृत्ति िपुरुषार्थे भवति, यथा फलं तदुपायेो वा । तदुपायेपि हि विधितः प्राक् सामा न्यरूपा प्रवृत्तिः पुरुषेच्छनिबन्धनैव । इतिकर्तव्यतासु तु सा मान्यतेो विशेषतश्च प्रवृत्तिर्विधिपराधीनेव । नद्युनधि गतकरणभेद इतिकर्तव्यतासु घटते । तस्माद्विध्यधीनप्रवृत्ति तया ऽङ्गानां क्रत्वर्थता । क्रतुरिति हि विधिविषयेण वि धिं परामृशति विषयिणम् । तेनार्थते विषयीक्रियत इति क्रत्वर्थः । न चाध्ययनं वा स्वाध्यायेो वा तदर्थज्ञानं वा प्रा ग विधेः पुरुषेच्छाधीनप्रवृत्तिर्येन पुरुषार्थः स्यात् । यदि चाध्ययनेनैवार्थावबेधरूपं नियम्येत ततेा मानान्तरविरोधः । तट्रयस्य विनाप्यध्ययनं पुस्तकादिपाठेनाप्यधिगमात् । तस्मा त्सुवर्णे भार्यमितिवद्ध्ययनादेव फललं कल्पनीयम् । तथा चाध्य यनविधेरनियामकत्वाच्छूद्रस्याध्ययनेन वा पुस्तकादिपाठेन वा सामथ्र्यमस्तीति से ऽपि ब्रह्मविद्यायामधिकृतः (१) । मा भू द्वा ऽध्ययनाभावात्सर्वत्र ब्रह्मविद्यायामधिकारः (२) संवर्गवि द्यायां तु भविष्यति । अच्छारे वाशूद्र इति शूद्रं संबेो ध्य तस्याः प्रवृत्तेः । न चैष शूद्रशब्दः कदाचिद्वयवव्युत्प च्या ऽशूद्रे वर्णनीयः । अवयवप्रसिद्वितः समुदायप्रसिद्धेरनपे शतया बलीयखात् । तस्माद्यथा ऽनधीयानस्येष्टै निषाद स्यपतेरधिकारे वचनसामथ्र्यादेवं संवर्गविद्यायां शूद्रस्या


(१) अधिक्रियेत- पा० १ | 3 ।

(२) विद्यावधिकार -पा० ? ॥ ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२६९&oldid=140920" इत्यस्माद् प्रतिप्राप्तम्