पृष्ठम्:भामती.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१.पा.२ख.२१]
[भामती]
[१८६]

विषयेभ्येो व्यतिरिक्त इति तज्ज्ञानेन न सर्वे ज्ञातं भक् ति । समाख्यान्तरमाच । “अपि च स ब्रह्मविद्यां सर्व विद्याप्रतिष्ठा'मिति । “खवा ते ऽदृढा यज्ञरूपा अष्टाद शे'ति । पवन्ते गच्छन्ति अस्थायिन इति खवाः । श्रत एवादृढाः । के ते यज्ञरुपाः । रूप्यन्ते ऽनेनेति रूपं, यो रूपमुपाधिर्येषां ते यज्ञरूपाः । तत्र षेोडशर्विजः । फटतु यजनेपाधिना फटविक्शब्दः प्रवृत्त इति यज्ञेोपाधय फट विजः । एवं यजमानेपि यज्ञेोपाधिरेव । एवं पत्नी , ‘प- युर्न यज्ञसंयोग'इति स्मरणात् । तएते ऽष्टादश यज्ञरूपा येष्वृत्विगादिपूतं कर्म यज्ञः, यदाश्रयेो यश इत्यर्थः । तच कर्मवरं, खर्गाद्यवरफलत्वात् । अपियन्ति, प्राशुवन्ति । “न- छि दृष्टान्तदाष्टन्तिकयेो”रियुक्ताभिप्रायम् ।

विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २९ ॥

विशेषणं चेतुं व्याचष्टे । “विशिनष्टि ची'ति । शारीरा दियुपलक्षणं, प्रधानादित्यपि द्रष्टव्यम् । भेदव्यपदेशं व्यः चष्टे । “तथा प्रधानादपी'ति । स्यादेतत् । किमागमिक सांख्याभिमतं प्रधानम् । तथा च बङ्कसमञ्जसं स्यादित्यत श्राह । “नात्र प्रधानं नाम किं चि'दिति ।

रूपोपन्यासाच ॥२३॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१९३&oldid=138836" इत्यस्माद् प्रतिप्राप्तम्