सामग्री पर जाएँ

पृष्ठम्:भामती.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा-१.४]
[भामती]
[१२२]

वा द्रष्टव्याः । खमपीते भवतीति च निरुक्त जीवस्य प्रधा ने खकीये ऽप्ययं सुषुप्तावस्थायां बूते । प्रधानांशतमःसमुद्रे को हि जीवेो निद्राणस्तमसोव मग्रे भवति । यथाङ्ग'रभा वप्रत्ययालम्बना वृत्तिनिद्रेति । वृत्तीनामन्यासां प्रमाणादी नामभावस्तस्य प्रत्ययकारणं (१) तमस्तदालम्बना निद्रा जी वस्य वक्तिरित्यर्थ । तथा सर्व प्रस्तुत्य चेताश्वतरमन्त्रे ऽपि ‘सकारणं करणाधिपाधिप’ इति प्रधानाभिप्रायः । प्र धानस्यैव सर्वज्ञत्वं प्रतिपादितमधस्तात् । तस्मादचेतनं प्रधानं जगदुपादानमनुवदन्ति श्रुतय इति पूर्वः पक्षः । एवं काणा दादिमते ऽपि कथं चिद्येोजनीयाः श्रुतयः । अशरार्थस्तु “प्रधानपदशे ऽपी'ति “प्रधानस्यापी'ति, श्रपिकारावेवकारा थै । स्यादेतत् । सत्त्वसंपत्या चेदस्य सर्वज्ञता ऽथ नमः संपत्या ऽसर्वज्ञतैवास्य (२) कस्मान्न भवतीत्यत श्राच्छ् । “तेन च सत्त्वधर्मेण ज्ञानेने”ति । स्त्वं हि प्रकाशशीलं निर तिशयेत्कर्ष सर्वज्ञताबीजम् । यथाङ्गः । ‘निरतिशयं सर्वज्ञ ताबीजमिति । यत् खलु सातिशयं तत् क चिन्निरतिश यं दृष्टं, यथा कुवलामलकबिख्खेषु सातिशयं महत्वं येन्नि परममच्छति निरतिशयम् । एवं ज्ञानमप्येकद्विबङ्गविषयतया सातिशयमित्यनेनापि का चिन्निरतिशयेन भवितव्यम् । इ दमेव चास्य निरतिशयत्वं यद्विदितसमस्तवेदितव्यत्वम् । त दिदं सर्वज्ञत्वं सत्त्वस्य निरतिशयेत्कर्षत्वे संभवति । एत


(१) मभावकारणं-पा० १ | २ | ४ |

(२) ऽङ्गतैवास्य-पा० १ ॥ २ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१२९&oldid=136470" इत्यस्माद् प्रतिप्राप्तम्