पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
परोपकारपद्धतिः

द्यच्। नाभ्यर्थित स्सन्नेव । जलं ददाति प्रवर्षति । तथाहि सन्तस्स- त्पुरुषाः स्वयमयाचिता एवेत्यर्थः । परेषां हिते हिताचरणे विहिताभि- योगाः कृताभिनिवेशाः - न त्ववबोधिता इत्यर्थः । अतो युक्तमेवं हेताचरण मेतेषामिति भावः.  सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः - सामान्य- विशेषकार्यकारणभावाभ्यां सदृष्टप्रकृतकार्यसमर्थनमर्थान्तरन्यास' इति सर्वस्वसूत्रम्. वसन्ततिलकावृत्तम् .

एते सत्पुरुषाः परार्थघटकास्वार्थान् परित्यज्य ये
साप्तान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये।
तेऽपि मानुषराक्षसाः परहितं स्वार्थाय निभन्ति ये
ये तु घ्नान्ति निरर्थकं परहितं ते के न जानीमहे ॥ ६५ ॥

 व्या.---अथ व्यापारतारतम्येन पुरुषाणामुत्तमादिभेदमाह - एते इति..--ये पुमांसः । स्वार्थान स्वप्रयोजनानि - नि’अर्थोऽभि- धेयरैवस्तुप्रयोजननिवृत्तिष्वत्यभिधानात् । परित्यज्य त्यक्त्वा । परा- थै घटकाः परप्रयोजनसंघटनशीलाः। एते। सत्पुरुषाः पुरुषोत्तमाः । सत्त्वस्य तेनैवाभिव्यक्तत्वादिति भावः। ये तु स्वार्थस्यावि- रोधेनावैषम्येण - स्वार्थनिर्वाहतत्परत्वेनैवेत्यर्थः । परार्थं परप्रयोजन- निर्वाहार्थम् - उद्यमभृत उद्योगभाजः । ते सामान्यास्साधारणा: मध्यमपुरुषा इत्यर्थः । ये तु । स्वार्थाय स्वार्थनिष्पत्त्यर्थ । परहित । निघ्नन्ति नाशयन्ति । तेऽमी। मानुषराक्षसाः मानुषशब्दवाच्या: राक्षसाः · तथा कूराचारतत्परत्वात्पुरुषाधमा इत्यर्थः । ये तु निरर्थक निष्फलं प्रयोजननिष्पत्तिराहित्येनापीति यावत् । पर-