व्या.----उक्तमेवार्थं विवृण्वन्निगमयति - रम्यमिति.--हर्म्य
तलं प्रासादोपरिप्रदेशः । वसतये निवासाय । न रम्यं किं - रम्यमे-
वेत्यर्थः । तथा। गेयं गानं * भव्य गेये ' त्यादिना कतरि निपातः,
- तदादिः यस्य तत्तथोक्तं - आदिशब्देन वीणावादनादिकमपि ।
संगृह्यते * 'शेषाद्विभाषे' ति कप्प्रत्ययः । न श्राव्यं किं श्रोत्रसुखा
वहं न किं - श्राव्यमेवेत्यर्थः । तथा। प्राणसमायाः प्राणप्रियनायि -
कायास्समागमेन संभोगेन - यत्सुखं तच्च । अधिकपीतये अत्य -
न्तसंतोषाय । नैव भवति कि? भवत्येवेत्यर्थः । किंतु । सन्तः वस्तुविचा-
रतत्परपुरुषाः । सकलमशेषं - हर्म्यतलनिवासादिकमपि । भ्रान्तः
पतनेच्छया परिभ्रमन् - यः - पतङ्गशलभः - नि. पतङ्गशलभे
भाना विति विश्वः - तस्य - पक्षयोः पवनेन गरुतोः वायुना - 1
व्यालोलोऽतिचञ्चलो - यो दीपाङ्कुरो दीपकलिका - तस्य • छाया
कान्तिस्तद्वचञ्चलं तरळं नश्वरमित्यर्थः । आकलय्यालोच्य । वनान्तं
वनमध्यं । गताः शाश्वतब्रह्मानन्दसाधनतपश्चर्यार्थमिति भावः ॥
॥ इति वैराग्यशतके नित्यानित्यवस्तुविचारः संपूर्ण: ।।
॥ शिवार्चनम् ॥
आसंसारं त्रिभुवनमिदं चिन्वतां तात ! तादृ-
ङ्नैवास्माकं नयनपदवीं श्रोत्रमार्गं गतो वा।
योऽयं धत्ते विषयकरिणी गाढगूढाभिमान-
क्षीवस्यान्तःकरणकरिणस्संयमालानलीलाम् ॥ ८१