पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
वैराग्यशतके


चुम्बनादिकमावश्यकं - तत्र पूर्वश्लोके अधरचुम्बनमुक्तं - किं तु पूर्वतर श्लोकोक्तमेव आलिङ्गनं पुनरत्राप्युक्तम् - अतः पौनरुक्त्यदो- षः प्रसक्त इति चेन्न - तत्र कतिपयालिङ्गनाभावमात्रानुशोचनमत्र तु सर्वाङ्गनालिङ्गनाभावानुशोचनमिति न दोषप्रसक्तिरिति वेदि - तव्यम् । कि त्वयं परिवर्तमानः । काल: । काकैर्वलि बुग्भिरिव अस्मा मिरिति शेषः। परपिण्डेषु परान्नेषु - लोलुपतया लालसतया - सावमानपरपिण्डादनकुक्षिम्भरितयेत्यर्थः। ते प्रेर्यते याप्यते- न स्वर्थ साधकतयेति भावः - नि. ' परान्नः परपिण्डाद' इत्यमरः * प्रपू- र्वादीरयतेः कर्मणि लट'। एतत्सर्वं कालविलसितमेवेति तात्पर्यम् । यद्यप्यन्त्र वैराग्यप्रकरणे धर्मार्थपितृशुश्रूषाविद्यायशोऽधिगमानां यथाकथञ्चित्पुरुषार्थोपयोगितया तदभावानुशोचनं वक्तुंयुक्तं - न त्वङ्गनालिङ्गनादिसंभोगाभावानुशोचनं - तदपि श्लोकत्रयेण त्रिवार - सिद्ध्यर्थं कथयितुमत्यन्तायुक्तं-ननु विद्याध्ययनाभावे द्विवारानुशो - चनं युक्तमिति चेत् न तस्य उपादेयत्वेन शतकृत्यम्तदभावानु- शोचनेऽप्यनौचित्याभावात्। अन्यस्य त्वनुपादेयत्वादेतदनुशोचन- मनुचितमिव प्रतिभाति • तथाऽपि तस्यापि पुरुषार्थमध्यपरि - गणनया संपातापातत्वात् - प्रसूतिभाजो विश्वस्य स्त्रिपुंसाभ्यामेव निष्पन्नत्वात्कामस्य पुरुषार्थत्वेन च पितृऋणविमोचनहेतुभूततया च सादृशशास्त्रस्य महापुरुषप्रणीतत्वात् - “ धर्माविरुद्धो भूतेषु कामोड स्मिभरतर्षभेति भगवद्वचनान्तद्विरुद्धस्यैवानुपादेयत्वात् - अत्र तद- विरुद्धस्यैतत्कामस्य विवक्षितत्वेनोपादेयत्वाच्च तदेवानुशोचितुमु - चितं। यद्वा लोके तावदुत्तमयस्त्वलाभे अधमवस्त्वपेक्षा - तस्याप्य -