पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
कालमहिमानुवर्णनम्


इत्यादिवचनेन च बहुफलसाधनतया अर्जनीयमित्युपदिष्टं वित्तं नार्जितं - ततस्तत्साध्यफलमपि न साधितमिति भावः । ननु -

अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
रक्षितानां व्यये दुःखं धिगर्थं दुःखभाजनम्
' ॥

इति निषेधोक्तः कथं तदुपार्जनाभावानुशोचनमिति चेत्सत्यं तस्याप्य- वहिताविसंवाद्यैहिकामुष्मिकफलजनकत्वेनाभ्यर्हितत्वात्पुरुषार्थपर्य - बसानाच्च न दोष इति मन्तव्यं । तथा समाहितेन सावधानेन प्रसन्नेनेत्यर्थः। मनसा अन्तःकरणेन - अन्तः करणशुद्धिपूर्वकं विहितस्य कर्मणः फलजनकत्वनियमादिति भावः । पित्रोर्मातापि - त्रोरित्यर्थः - नि. 'मातापितरौ पितरावि' त्यमरः * · पितामात्रे' त्येकशेषः । शुश्रूषा परिचर्या सेवेति यावत् - नि. ' शुश्रूषा श्रोतु - मिच्छायां परिचयर्यावधानयो' रिति विश्वः - न संपादिता न कृता-

'मातापितृसमं देवं सर्वेषां न हि विद्यते ।
तस्मात्समर्चयेन्नित्यं पितरौ देवरूपिणो'
।।

इत्यादिवचनैः सर्वेश्वराराधनकल्पतया बहुफलदायकत्वेन कर्तव्येति बोधिता पितृसेवा न कृता - ततस्तत्साध्यफलमपि न सम्पादित - मिति भावः। आलोले चञ्चले तरले - आयते कर्णान्तविश्रान्ते - च लोचने यासां ताः - जगन्मोहननयनविलासवत्य इत्यर्थः । प्रिय- त्तमा अत्यन्तमनोविनोदकारिण्यः संभोगयोग्यास्समानुरागिण्यस्तरु- 'ण्य इत्यर्थः-अन्यथा रसाभासप्रसङ्गात् । स्वप्नेऽपि नालिङ्गिताः । एते- नात्यन्तमिथ्याभूतस्वप्नालिङ्गनाद्यभावानुशोचनेन जाग्रद्दशायां तस्या- त्यन्तासंभाविसत्वं सूच्यते । ननु कामनिष्पत्यर्थमङ्गनालिङ्गानाधर -