पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
शृङ्गारशतके

मुग्धाङ्गनानां सुन्दरस्त्रीणां नवयौवनानां वा · उदयद्यौवना मुग्धा' इति लक्षणात् । स्थूलोपस्थस्थलीपु वर्तुलोच्छूनमदनसदनप्रदेशेषु।

  • 'जानपद - ' इत्यादिना अकृत्रिमार्थे ङीप् । स्थगित माच्छादितं . ।

यत्करतलं-तस्य स्पर्शः संपर्क:-एव लीला तन्त्र - उद्यम उद्योगो -येषां तेषां सताम् - कामिनीमोहनोपस्थस्पर्शसुस्वपनुभवतां सतामेवेत्यर्थः। कालो यातु। इयं चैकावस्था : इमे द्वे एवोत्तमे गती । न त्वेतद्वयति- रिक्तं गत्यन्रमस्तीत्यर्थः । सर्वदा ज्ञाननिया वा कामगोष्ठ्या वा पण्डितानां कालो यापवितव्यः । नत्वन्यथेति भावः. स्थूलोपस्थेत्य- नेन आसां चित्रिणीजातित्वं सूचितम् । तदुक्तं रतिरहस्ये--

'मदनसदनमस्यावर्तुलोच्छूनमन्तर्मृदु
मदनजलादृयं रोमभिर्नातिसान्द्रैः ।
प्रकृतिचपलदृष्टिर्बाह्यसंभोगसक्ता
रसयति मधुराल्पं चित्रिणी चिबरक्ता' ॥ इति॥

एतजात्यनुकूलसुरतनियतयामोऽपि तत्रैवोक्तः -

'व्रजति रतिसुखार्थी चित्रिणी मग्रयामे
भजति दिनरजन्योर्हस्तिनी ध द्वितीये ।
गमयति घ तृतीये शङ्खिनी मार्द्रभावां
रमयति रमणीयां पद्मिनी तुर्ययामे'। इति॥

मतान्तरे तु द्वितीययाम इत्युक्तम् -

घनकुचनखभेदैर्मुष्टिघातैश्च मध्ये
रतिनियतकरैश्च प्रीति युक्तैर्वचोभिः ।