पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
पक्षद्वयनिरूपणम्

सम्सारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भः प्लवललितधियां यातु कालः कथञ्चित् ।
नोचेन्मुधाङ्गनानां स्तनजघनघनाभोगसंभोगिनीनां
स्थूलोपस्थस्थली स्थगितकरतलस्पर्शलीलोदयमानाम् ॥ ३७

 व्या.----संसार इति.--स्वप्नस्य सार इव सारों यस्मिन स:- मियाभूत इत्यर्थः * * सप्तम्युपमाने' इत्यादिना बहुव्रीहिः। तथा परिणत्या परिणामावस्थायां - तरले अस्थिरे - अशाश्ववत इत्यर्थः - संसारे संसृतौ । पण्डितानां परिज्ञात्रॄणां द्वे गती अवस्थे । विद्यते इति शेषः । के द्वे इत्याशङ्कायामाह - तत्वज्ञानमेव - अमृताम्भः अमृतप्रायजलं - तत्र प्लव इव-ललिता रुचिरा - यद्वा तत्वज्ञानामृताम्भसि - प्लवः प्लवनम् - क्रीडेति यावत् - तत्र ललिता उल्लासवती - धीर्थेषां तत्वज्ञानोल्लसितयुद्धीनाम् सतामित्यर्थः । कथंचिदतिप्रयत्नेन । कालो यातु गच्छतु अनिक्रामात्वत्यर्थः। -- नि. कथमादि तथाप्यन्तः यनगौरवबाढयोः' इत्यमरः । 'काल: कदाचित् ' इत्यपपाठः । इयमेकावस्था ; नोचेदेयं न स्या च्चेत्त्तर्हि । स्तनयोर्घनजघने विपुलकटिपुरोभागे च - आभोगसभोगिनीनां विस्तृतसंभोगेच्छावतीनाम् - यद्वा स्तनयों र्घनजघनस्य निबिडतरजघ- नस्य च - य आभोगो विस्तार - स्तत्र संभोगनीनाम् कुचमर्दन निधु- वन रूपबाह्याभ्यन्तर संभोगाकाइक्षिणीनामित्यर्थः - एतेन समानुरा- ‘गित्वमुक्तम् । अन्यथा आभासप्रङ्गात् । तदुक्तम्-

एकत्रैवानुरागश्चेत्तिर्यङ्म्लेच्छगतोऽपि वा।
योषितो बहुसक्तिश्च रसाभास स्विधा मतः'॥ इति ॥