पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
कर्मपद्धतिः

छित्त्वा कर्पूरखण्डान् वृत्तिमिह कुरुते कोद्रवाणां समन्तात् प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्यः॥

 व्या.---- अतस्सत्कर्माननुष्ठातुः दुर्मेधस्कतामाह-स्थाल्यामि- ति.-स मनुजः इह लाके - विदूरात्प्रभवति वैदूर्य वालवायज- माणिः - नि 'वैदूर्यं वालवायजमि'त्यमरः * 'विदुराञ्ञयः' इति - ज्यप्रत्ययः - अत्र विदूरशब्दो वालवायस्यादेशः पर्यायो वा तत्रोपच - रितो वा - तेन वालवायाद्रेिरसै प्रभवति - स विदूरानगरात् - तन्न संस्कृत'इत्याक्षेपः प्रत्युक्तः ॥

वालवायो विदूरं च प्रकृत्यन्तरमेव वा ।
न वै तत्रेति चेद्भूयाज्जित्वरीवदुपाचरेत् ।।

वैदूर्यमय्यां वैडूर्यमणिविकारायां - - विकारार्थे मयट् । स्थाल्यां पात्रे । चान्दनैश्चन्दनतरुसंवन्धिभिरिन्धनौधैः काष्ठभारैः । तिलस्त्रलं तिलिपिष्टं । पचति । तथा । सौवर्णैस्सुवर्णविकारै र्लाङ्गलाग्रैर्हलमुखै रर्कतूलस्य हेतोरर्काख्यवृक्षतूलार्थमित्यर्थः >> ’षष्टी हेतुप्रयोग' इति षष्ठी । वसुधां भुवं । विलिखति कर्षति। तथा कर्रपूरखण्डान् कर्पूरकदलीकाण्डां श्छित्वा । कोद्रवाणां कोरदूषाख्यसस्यविशे- षाणां - नि. 'कोरदूषस्तु कोद्रवः' इत्यमरः । समन्तात्सर्वतोऽ-- धिकमित्यर्थः । वृतिमावरणं । कुरुते । कोऽसावीदृशोदुर्भग इत्याशङ्कायामाह - इमां कर्मभूमिं कर्माचरणयोग्यभूमि प्राप्य योमन्द- भाग्यो निर्भाग्यो मनुज स्तपश्चान्द्रायणादिकम। न भजति न सेवते। इति संबन्धः; वैदूर्यपात्रे तिलपिष्टपचनादिप्रायं कर्मभुव्यस्यां - तपोऽ- ननुष्टनमित्यर्थः । अतस्सर्वथा सत्कर्मानुष्ठेयं श्रेयस्कामेनेति तात्पर्यम् ॥