पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
भरतचरिते


सुरपतिभवनात् प्रवर्तमाना
 प्रसवकृतां रुजमुज्जहार मातुः ॥ ८४ ॥

मुनिरमुमतिलोकशक्तियुक्तं
 तदनु ततान स जातकर्मणासौ ।
कृतनियममुपाहितं कृशानुं
 भुवि पवमानमुखेन कर्मणेव ॥ ४९ ॥

नरपतितनयस्य बाललीला-
 प्यभवदमुष्य कुलोचितैव नूनम् ।
भुजबलमवलम्ब्य विक्रमैर्यत्
 क्षितिपरिवेष्टनमुल्बणं बभूव ॥ ५० ॥

मुनिवरनयनामृतप्रसूतेः
 सकलमनोहरसौकुमार्यधाम्नः ।
अनुदिवसमवर्धतास्य तेजः
 सह वपुषा शरदीव शीतरश्मेः ॥ ५१ ॥

मदकरिषु निसर्गबान्धवाद्वा
 मृगपतिशब्दविशेष मत्सराद्वा
द्विपरिपुमवधीच्चपेटयासौ
 वनकरिणां कुलमारुरोह भूयः ॥ ५२ ॥

परिमितवयसोऽपि तस्य शक्तिः
 सुरपरिपन्थिषु भीषणा बभूव ।
अनतिपरिणतापि सप्तसप्ते-
 र्भवति भयाय हि कौशिकेषु दीप्तिः ॥ ५३ ॥