पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
भरतचरिते


श्रीमानहीनशयने शिशिरे निशायां
 दुग्धोदधाविव हरिर्भगवानशेत ॥ १ ॥

योग्यार्थसंघटनकौतुकिनी रसार्द्रा
 केनापि भाग्यविभवेन विभाव्यमाना ।
चिन्तापरं तदनु भूपतिमाससाद
 माध्वी निसर्गमधुरा कवितेव साध्वी ॥ २ ॥

सा देहभाभिरुपरि प्रविसारिणीभि-
 रुल्लोचमम्बरतले न बबन्ध यावत् ।
तावत् स्वतल्पसमतुङ्गमनल्पशिल्प-
 मस्यै दिदेश मणिपीठमसौ नरेन्द्रः ॥ ३ ॥

मन्दस्मितार्द्रसुधया स मुहुः क्ष[१]रन्त्या
 प्रक्षालयन्निव मुखं विरहानलोष्णम् ।
एनामभाषत परिस्फुर[२]ताघरेण
 सन्दर्शयन्निव बहिर्दयितानुरागम् ॥ ४ ॥

का त्वां विना सुतनु ! सम्प्रति मु[३]क्तशोभा
 वासस्थली कमलिनीव हृतारविन्दा |
किं तत् कुलं तिलकितं तव जन्मनेति
 जिहेमि सौहृदव[४]शादनुयोक्तुमिच्छन् ॥ ५ ॥

देवीत्वमाह तव निश्चलनी[५]लनेत्रं
 निष्पन्दषट्पदसरोरुहकान्ति वक्रम् ।
किं कृत्यमस्ति कृतकृत्यधियस्तवेह
 वात्सल्यमाश्रितजने विवृणोषि वा त्वम् ॥ ६॥


  1. 'कि' ख. पाठ:.
  2. 'रि' क. पाठ:.
  3. 'वीतशो ग. पाठ:.
  4. 'रसाद' क. पाठ:.
  5. 'शी' ख. पाठ:.