त[१]दक्षिकोणेक्षणबाणधा[२]रया
स्मरेण धानुष्कतया व्यजीयत ॥ ३९ ॥
अवेक्षमाणः स्फुटमायतेक्षणां
गतोऽपि सद्योऽनिमिषत्वमद्भुतम् ।
मुहुश्चकाङ्क्षे स सहस्रनेत्रतां
क कामसामग्रयमगामि कामिभिः ॥ ४० ॥
अभूत् सकम्पं वपुरस्य भूभुजः
श्रमाम्बुसिक्तैः पुलकैरलङ्कृतम् ।
प्रमोदबाष्पस्नपितैर्निपातितै-
र्वधूकटाक्षोत्पलकेसरैरिव ॥ ४१ ॥
महीक्षितस्तामवलोक्य तस्थुषः
स्मरेण [३]भिन्नं कतिधा नु मानसम् ।
न पञ्चधा पञ्चभिरेव सायकै-
र्यतो विकल्पैः [४] शतधावलम्बितम् ॥ ४२ ॥
किमीदृशीयं परमार्थसंभवा
विभावना वा मनसो विमोहिनी ।
अथेन्द्रजालं नु महेन्द्रनिर्मितं
मणेरयं वा महिमैव केवलम् ॥ ४३ ॥
अनल्पशिल्पा यदि सृष्टिरीदृशी
भवेद् विधातुः स्वत एव नैपुणी ।
ततः स्वदाराः खलु सा सरस्वती
स्फुटं विधात्रे स्वयमभ्यसूयति ॥ ४४ ॥