पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
द्वादशः सर्गः ।


इत्थं दुग्ध्वा गामिमां चापवत्सां
 रत्नक्षीरां प्रस्नवार्हा सुखेन ।
गीर्वाणानां पुष्पवृष्टिं दधानो
 राज्ञां नाथः स्वां पुरीमाविवेश ॥ ५१ ॥

इति कृष्णविरचिते भरतचरिते एकादशः सर्गः ॥


अथ द्वादशः सर्गः ।

विजित्य पृथ्वीमिति निःसपत्नां
 लोकान्तरं जेतुमिव क्षितीशः ।
आवर्त्तयामास तुरङ्गमेध-
 माहूय कण्वं मु[१]निमध्वरज्ञम् ॥ १ ॥

दुःषन्तसूनुर्भरतो हि यष्टा
 कण्वः पुनर्याजयिता महर्षिः ।
स्थानं प्रयागः ऋतुरश्वमेध-
 चतुष्टयं तत् क्रियते फलाय ॥ २ ॥

फलाभिसन्धानमृते चकार
 वह्नौ हविस्त्यागमसौ नरेन्द्रः ।
पदं हि लोकोत्तरमात्मनश्चेत्
 क्षुद्रं पदं प्रार्थयते न धीरः ॥ ३ ॥

स भूपतिः कर्मसु दीक्षितोऽपि
 चकार भङ्गया चतुरोऽप्युपायान् ।
साम स्तुतौ दानमथापदाने
 भेदं च मैत्रावरुणे च दण्डम् ॥ ४ ॥


  1. ’गुरुंम’ ग. पाठ.