पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


प्रजावृत्यावि[१] रोधेन काले काले महीपतिः ।
दुदोह गामिमां पुष्टां रत्नक्षीरामनामया[२]म् ॥ १९ ॥
अरातिकामदहनमशेषालोकनक्षमम् !
तस्य चाराह्वयं चक्षुरतृतीयमभवद् विभोः ॥ २० ॥
कोदण्डपाणिना तेन नियम्योऽभून्न कश्चन ।
तदाज्ञया निवृत्ता यत् प्रजास्ताः पापकर्मणः ॥ २१ ॥
भरते शासति महीं व्याधानां कूटविग्रहः ॥
प्रवाद उपसर्गाणां विषादो बर्हिणामभूत्॥ २२ ॥
कृषीवला: खलाधाराः कुलायमुखरा: खगाः ।
परस्वापह[३]राः: सृतास्तस्मिन् पालयति क्षितिम् ॥ २३ ॥
परागस्तारका वाताः सत्पथोल्लङ्धिनो घनाः ।
वंशकण्टकिनः शैला बभूवुंस्तस्य शासने ॥ २४ ॥
अथ तस्याभवन् भार्यास्तिस्रो वैदर्भसंभवाः
समग्रगुणसम्पन्नाः कृतयः सुकवेरिव ॥ २५ ॥
स ताभिः शुशुभे राजा तिसृभिर्धर्म्यवृत्तिभिः ।
श्रुतिभिर्मूर्तियुक्ताभिर्धर्मो विग्रहवानिव ॥ २६ ॥
अथ तस्य पिता पुण्येरगण्यैश्विरसंभृतैः ।
जरयेव भृशोद्विघ्नो नित्यां निर्जरतामगात् ॥ २७ ॥
मन्त्रिवृद्धास्ततस्तस्य समिद्धं शोकपावकम् ।
विवेकवारिधाराभिः शमयांचक्रिरे शनैः ॥ २८ ॥
पितुः पुरोधसा साक स विधायोत्तरां क्रियाम् ।
अर्थिनस्तोषयामास न तु रन्ध्रार्थिनो रिपून् ॥ २९ ॥


  1. 'नु' ख. पाठः,
  2. 'यम्' क. पाठ:.
  3. 'रताः सू' ख. पाठ.