पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नवमः सर्गः


अवनेरवने हि लाघवं
 भवता भव्याधिया विभावितम् ।
अवधानमृतेऽपि यद् द्विषां
 शिरसि स्थापितमात्मना पदम् ॥ ६२ ॥

न भवानिव पार्थिवो ऽभव-
 न्न भविष्यत्यधुना न वर्तते ।
यदसौ तव सत्यवादिता
 यदिदं बुद्ध्यवधानमीदृशम् ॥ ६३ ॥

धनमर्थयते शकुन्तला
 यदि हेमाचलशृङ्गसम्मितम् ।
घनदादपि हर्तुमीश्वर-
 स्तनयोऽस्याः सशरं वहन् धनुः ॥ ६४ ॥

इति धीरमुदीरितस्तया
 नृपतिर्ध्यान निमीलितंक्षणः ।
सुखसुप्त इवाभवत् क्षणं
 दयितापत्यसमागमोत्स[१]वे ॥ ६५ ॥

अशृणोदशरीरिणीं गिरं
 जनसन्तापहरां जनाधिपः ।
घनघोषमनोहरस्वरां
 नभसो वृष्टिमिवाथ तां नवाम् ॥ ६६ ॥

प्रतिबिम्बमिवात्मसम्भवं
 निजसादृश्यघरं महीपते ! ।


  1. 'द्भ' क. ग. पाठ:.