सामग्री पर जाएँ

पृष्ठम्:भरतकोशः-३.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वयमात्मानं रञ्जयति निपातनात् इति स्वदनिरुक्तिः । श्रुश्यनन्तरभावी यः स्निग्धेऽनुरणनात्मकः। योगाद्वा रूढितो वापि स स्वरः श्रोतृरञ्जकः । तस्माण मार्गशब्दे द्रष्टव्यम् स्वरकरणं जगदेकमलेन उद्वाहादिधातुभेदेन मङ्गलारम्भक, कीर्तिलाहरी, आनन्दवर्धनेति त्रिधाभेदे दर्शितः उद्वाहेण प्रमुच्येत त्वराख्यं करणं तु तत्। ोमेश्वरः वर्णनामाङ्किता भोगेस्वरैरेव तु केवलैः । गीयते करणतालेन स्वराचं करणं हि तत् । अस्य भेदस्सप्तधा वण्यैते जगदेकमलेन लक्ष्यते करणस्याथ स्वरपूर्वस्य लक्षणम्। धातुद्वयं स्वरैरस्य नैरन्तर्येण गीयते । दूतशेखरनामात्र तालः प्रमथ ईरित ततःकरणतालस्यादैिरेवस्वरैहः॥ परद्वितयमस्यांशः प्रथमो गीयते बुधैः ।। द्वितीयोंशत्तृतीयश्ध गीयते सकृदेव हि । ध्रुवै गीत्वा ततोन्यासः उद्वाहेणैव कारिते ॥ एवमेव भवेत् पट्कं करणानामतः परम्। भेदेऽपि किश्चिदस्यति कथ्यते तद्धःक्रमात्॥ हरिपालः खरचातुर्विध्यम् वादी विवादी संवादी चानुवादीति संझिताः। सपगमेस्तरतर षड्जान्ता बहुपञ्चमा । मृदवो मपगाश्चान्न रिहीना पश्चमी मता ॥ पश्चात्रूरपदादिके करणे धातु युगलं गीयते मधुरैरश्रै ॥ ५५५

. पािल स्वरभेदः-चित्राभिनय आलोलिताख्या दृष्टिस्तु परावृत्तशिरत्तदा। मुखस्थाने तु हंसास्यः पुरोभागे तु कर्तरी । स्त्रभेदो भयहर्षक्रोधजरारौक्ष्यरोगसद्जनित स्वरभेदोऽभिनेतव्योभिन्नगद्दनिस्वनै स्थानभ्रष्टः स्वरैयः स्खलिते गदैरपि दर्शयेदिति शेष स्वरभेदो भयक्रोधमद्द्दपेशेवैरुत्पद्यते । गद्रदालापोऽनुभावः स्वरभेदो गद्मदक्रोधहर्षभयज्वरैः॥ नीराजनकराग्रस्यां भारतान्तस्य सन्निधौ श्वेताम्बरां नीलदेहां चिन्तये स्वरमङ्गलाम् ॥ विनयः रामामात्यकृत: । अत्र एकोनविंशतिमेलकतर उपन्यस्ताः । तेषु पञ्चदशा मुख्याः भिन्नलक्षणा भवन्ति । चत्वारोऽन्ये प्रहांश न्याससंवादिविवादिभेदेन तद्भिन्ना भवन्ति । अयं ग्रन्थः वेङ्कट मखिना बहुधा दूषितः । वीणातन्त्रीसारणासु स्वयंभुव इति ख्यातानां नादानां स्थितिं निरूपयति । यथैव रूपदेव श्रीकण्ठ विठ्ठलादिभिरपि स्वयंभूनादस्वरूपमुक्तम् । कालः झै. प. 150 शानः भरतः खरश्रुतिकार्यत्वम् स्वराणां श्रुतिकार्यत्वमिति केचिद्वदन्तिं हि । मृत्पिण्डदण्डकार्यत्वं घटत्येव यथा भवेत् । कार्यकारणभावस्तु स्वरश्रुत्यो संभवेत् श्रुतीनामिह सद्भावे प्रमाणं नैव विद्यते । अर्थापत्या यदि वा व्याप्तिग्रहपूर्वकं प्रमाणबलात्। सिद्धस्वरजनकानां गगनगुणानां स्वरो भेदः ।। कार्यकारणभेदोऽस्ति यद्यपि स्फुटमेव हि। तथापि कारणत्वं च श्रुतीनां नैव संभवेत्। कार्थेषु विद्यमानेषु कारणस्योपलम्भनात् । घटादौ विद्यामानेऽपि मृत्पिण्डोऽप्युपलभ्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/८७&oldid=99429" इत्यस्माद् प्रतिप्राप्तम्