पृष्ठम्:भरतकोशः-३.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तोकः-वंशे फूत्कारदोऽ स्तोककः पुन्ः। रन्ध्रापूरणतः प्रोक्तः स्तोकता-फूत्कारदोष स्तेोककः पुनारन्ध्रपूरणतः प्रोक्तः । स्तोत्रम्-रञ्जनगुण देवत्वात्तुतिसंयुक्तं तत्प्रभावप्रबोधनम् । आस्तिक्योत्पादनं गीतै स्तोत्रं भक्तजनप्रियम् । ऋकसामादिसु कलापूरक यथा सान्नां धूमाविशन्तः स्तोभेोऽभिधीयते। यथा काळानामत्रापि पूरकः स्तोम् उच्यते । यानि हि ऋगक्षरेभ्योऽभ्यधिकानि विवर्णभूतानि। यानि च तानि स्तोभाक्षराणि मुनिरह जैमिनिशाखे । ओंकारश्च हकारश्ध स्रव्यञ्जनसंयुतः। रतोभो निधेयो बोक्तव्य: सामगोतेषु सर्वदा ।। ब्रह्मोदितानि यान्यख दृश स्तोभपदानि तु। कलानां पूरणार्थाय चोक्तानि- यथा-इंटुं, जगतिप, बलेि तक, कुचझलगितिकल, पशुपति, दिगिनिगि, दिप्रे, गणपति , कुम्भः नान्यः जैमिनिरिति। मीमांसासूत्रे ९, २, ३९। अधिकं च विवर्ण च जैमिनि:स्तोभशब्दत्वादिति सूत्रमत्र सूचितम् प्रविश्य रङ्गं स्थित्वाऽल चार्यादीः कुर्वते क्रियाः । नर्तका येन तन्नादौ स्थानकानभिदंधमहे निष्पद्यते स्थागििनवृत्तावित्यस्मात्कृते स्युटि। भावेऽयं स्थानशब्दोः स्वार्थे कः प्रत्ययो भवेत्। अङ्गानां यत्सन्निवेशे विशेषे निश्चलेो भवेत् । तदुच्यते स्थानमिति भिद्यते तदपि त्रिधा । ऊध्र्वोपविष्टसुप्ताख्याविशेषणनियोजनात् । तत्रेोध्र्वस्थानकं मार्गदेशीभेदाद्दिधास्थितम्। स्थानकं तूपविष्ट यत्सु चैतद्द्वयोः समम् ॐ४७ करणाधारभावेषु स्थानशब्दोनिरुच्यते भविगत्यनुकूलेन स्थानकेन हि केनचित्। स्थिता गच्छति गान्तापि तिष्ठदियन्न श्वन् । प्रयोगो न विला येन तस्मादेतन्निरूप्यते । शरीरस्याङ्गविन्यासविशेषे भावपेोधकृत्। नेत्रयोः सहजः कोऽपि निश्चयः स्थानमुच्यते । प्राचां चतुर्णामेतेषां प्रयोो नाट्यनृत्तयो नायैकगोचरत्तदृशैरन्ययोः परिदृश्यते । नर्तने स्थानषट्कस्य केचेित्पञ्चविधां जगुः । चतुर्णामिति, वैष्णवसमपाद्वैशाखमण्डलानां अन्ययोः, आलीद्धप्रत्यालीढयो ज्वयः स्वस्तिर्क, बर्धमानं, नन्द्यावर्त, चतुरस्र, परावृत्तं, पाष्-ि पार्श्वगतं, पृष्टोत्तानतलं, एकजानुनतं, एकपाश्र्वगतै, चेति नव स्थानानि नृत्तमान्नेोपयोगीनि । स्वीनि खण्डविषमसमादीनि, कूर्मासनं, नागवन्धं, इति षडुद्धतनर्तने उपयोगीनि। क्षस्त, मदालसं, विष्कम्भितं, छान्तै, उत्सटं, स्रस्ताललं, जानुगतं, मुक्तजानुः, विभुक्तकमिति नवोपविष्टस्थानानि, समं, आकुञ्चितै नतै, प्रसारितं, उद्वहितं, विवर्तितं इति षट् सुप्तस्थानानि च। नाट्यकर्मण्युपयुज्यन्ते । अवशिष्टानि नृतनाट्ययोरिति घेम भूपालेनोक्तम् स्थानक्शोभनः स्थानक्षयेऽपि यः श्राव्यः शोभनेो लक्षणान्वितः ध्वनीनामुत्तमः प्रोक्तो ध्वनिः स्थानकशोभनः। वैष्णवं समपादं च तथा वैशाखमण्डले। आलीढं च तथा प्रत्यालीढं स्थानानि पुंसेि घट् । आयताख्यावहित्थाख्ये तथाश्वक्रान्तसंज्ञकम्। स्त्रीणां त्रीणि युरेतानि स्थानानीति मुनेर्मतम् । अथापि चेति स्वग्रन्थे भवन्नन्योन्यसूचेि यत्। मुनिस्तु यानि चत्वारि तानि स्थानान्यहं ब्रवे । गतागतं व दलितं मोटितं विनिवर्तितम् । अत्रैव केचिदिच्छन्ति पञ्चमै प्रेोन्नताभिधम्।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/७९&oldid=99421" इत्यस्माद् प्रतिप्राप्तम्