पृष्ठम्:भरतकोशः-३.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणीतस्य प्रयोगत्वात्संभावालौकिकाः स्मृता: स्तम्भादीनां तु बाह्यान हेतवो नान्तराः कचेित् अतस्सविषयत्वं नो सहमाना इमे स्फुटम् । चाक्षुष्यो व्यञ्जकश्चेति सात्विकः परिकीर्तितः । सात्विकारेखा-मेलरागः (धीरशङ्कराभरणमेलजन्य ) स रि म प नि स (अच) स नि ध प म ग रि म ग स अभिमानमेव सादृश्यं वदन्ति । अभिमानशब्दे द्रष्टव्यम् । साधनम्--शिल्पकाङ्गम् प्राणस्तपोभिरित्यादि यद्वचस्साधनै भवेत् । साधर्म् शिशिरस्य वसन्तस्य मध्यस्थस्समथो यथा। साधारणस्तयोरेव गते साधारण: स्वर ज्याहारविशेषस्साधनम् । यथा-क्षपणकापालिके भवतु मन्त्रेण वशीकरोमेि । तद्वेधा भवेदाद्य स्वरसाधारणं परम् । जातिसाधारणमिति तयोरावं चतुर्विधम् काकल्यन्तरषङ्कजैश्च मध्यमेन विशेषणात्। यदा श्रुतिसमुत्कर्षात्वनोलुप्त इवास्फुटः । कुम्भः अत्युत्कर्षस्तु सपयः न भवेद्विधयोरपि वैस्वर्याद्वयवधानाचे श्रुतीनां तेन जायते । गन्योस्ताभ्यां तु साङ्कर्ये स्वरव्यक्तिर्न लभ्यते । पारिशेष्यादतो गन्थोः श्रुत्युत्कर्षः स्फुटो भवेत्। गान्धारो वा निषादो वा विकृतो यत्र:गीयते तत्र श्रुतिसमुत्कर्षाद्भातव्योऽसौ भनीषिणा। काकलीसंयुतो यश्च यश्च स्यादन्तरान्वितः सगन्येोरप्रयेोगेऽपि प्रोक्तो वेसरषाडवः । मराङ्गनास्वरत्वेऽपि प्रयोगेोत्यनयोस्तत ७१७ षड्जस्याद्ये श्रुती काम निष्ठादः काकली भवेत्। निषादपङ्कजयोरेष यतः साधारणः स्मृतः । अस्याऽसाधारणत्वं स्याद्धर्भः साधारणं हि तत्। मध्यमाचे श्रुती क्रामन् गान्धारस्वन्तरो भवेत्। साधारणेोऽयं गमयोरत्य धर्मस्य ये भवेत्। साधारणं तु तद्ज्ञेयं अन्न साथरर्ण बुधैः। पूर्वं षडू समुचार्य काकली धैवतौ ततः । प्रयोक्तव्यौ क्रमेणैव सभ्यपालविशारदैः । उचार्य मध्यमं तद्वत् प्रयुञ्जीतान्तरर्षभौ । षड्रजं काकलेिलं यद्वा गीत्वा षडुजं ब्रजेत्पुन वत्परान्यतमं वेत्थं मध्यमं चान्तरत्वरम्। प्रयुज्य मध्यम आह्यो यद्वा तत्परतः िस्थतः। रवल्पप्रयोगः सर्वत्र काकली चान्तरस्वरः॥ निषादः प्रथमां षड्जीं ऋषभस्त्वन्तिमां श्रुतिम् । इजीमालम्बते वेत्स्यात् षङ्कजसाधारणं तदा गाभ्धारो मध्यमस्याद्यां अन्तिभां पश्चमः श्रयेत् । श्रुतिं यदि तता । मध्यसाधारणमिहोच्यते । एते साधारणे साक्षाष्ट्रीयेते कैकिी इति । प्रामसाधारणं केचिदेत एवावभाषिरे एकप्रामसमुत्पन्नास्वेकांशास्वपि जातिषु । यत्समं गानमापुस्तञ्जातिसाधारणं विदु रागानेवोचुरपरे जातेिसाधारणं बुधाः ।। अत्र साधारणे षड्जं षङ्कजप्रामेऽनुसंभवि साधारणं मध्यमस्य भध्यमाम एव हि । षड्जग्रामे काकली ह विद्यते नान्तरस्वर । सचेदत्रापतेत्तर्हि काकलीस्वरसंश्रयात् ।। अन्तरो मन्यमप्रामे नित्यमेवावतिष्ठते तत्र चेत्काकली कापि दृश्यते सान्तराश्रयात्। अत अॉडुवकृत पङ्कजप्राम काकलवान्स्वरः । मध्यमे त्वौडुवाशैसी काकठी नैव कर्हिचित् । तनोति षट्स्वरं गीतमिति गतिविद्धेो विदुः । एवं काकल्यन्तरे द्वे षड्जग्रामे यदा तदा । षड्जसाधारणां प्रोक्तं भरतशेन भूभुजा। तथैवान्तरकाकल्यौ द्वौ मध्यमगतौ यदि । तदा मध्यमपूर्व स्यात्साधारणमिह फुटम् । जातिसाधारणमथो यथोद्देशं प्रतन्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/४९&oldid=99391" इत्यस्माद् प्रतिप्राप्तम्